________________
३-मार्गतत्त्वम् गा-१०६
१३७
चक्रे० : अथाऽऽगमोक्तामेव संसारमोक्षमार्गसङ्ख्यामाहुः - देव० : भूयोऽपि कुमार्गसन्मार्गी भङ्ग्यन्तरेणाह -
गिहिलिंग-कुलिंगिय-दवलिंगिणो तिन्नि हुंति भवमग्गा ।
सुजइ-सुसावग-संविग्गपक्खिणो तिन्नि मोक्खपहा।।१०६।। चक्रे० : गृहिलिङ्गा गृहस्थाः, कुलिङ्गिनः पाषण्डिनः, द्रव्यलिङ्गिनः पार्श्वस्थादयः, त्रयो भवन्ति भवमार्गाः, द्रव्यलिङ्गिनामप्युभयभ्रष्टत्वाद्भवमार्गतैव । सुयतयः, सुश्रावकाः, संविग्नाः सुसाधवस्तेषां पक्षेण पक्षपातेन चरन्तीति संविग्नपाक्षिका इति त्रयो मोक्षपथाः । ननु पूर्वं मोक्षमार्गद्वैविध्यमेवोक्तमधुना तु त्रैविध्यमिति कथं न विरोधः ? सत्यम्, तृतीयमार्गस्याऽप्रधानत्वादल्पत्वात्कादाचित्कत्वाञ्च तत्र न विवक्षा, अत्र नु संसारमार्गत्रैविध्यप्रस्तावात् तद्भणनमित्यविरोधः, तल्लक्षणं चेदमवसेयम्, तथाहि -
संविग्गपक्खियाणं लक्खणमेयं समासओ भणियं । ओसन्न चरणकरणा वि जेण कम्मं विसोहंति ।। सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ होइ य सव्वोमराइणिओ ।। वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेय । अत्तट्ठा न वि दिक्खइ देइ सुसाहूण बोहेउं ।। [उपदेशमाला-५१४,५१५,५१६]
इति गाथार्थः ।।१०६।।
देव० : गृहमेव लिङ्गं येषां ते गृहलिङ्गा गृहस्था एव, कुत्सितं च संसारकारणत्वात्तल्लिङ्गं च, तद्विद्यते येषां ते कुलिङ्गिकाश्चरकादयः, द्रव्यलिङ्गं भावविकलानां साधुनेपथ्यधरणम्, तद्विद्यते येषां ते द्रव्यलिङ्गिनः पार्श्वस्थादयः, आधार आधेयोपचारात्तदनुष्ठानानि, त्रयस्त्रिसङ्ख्याः किं भवन्ति ? भवमार्गाः संसारपथाः । अथ गृहिलिङ्गकुलिङ्गिनौ भवतां संसारपथौ, रजोहरणमुखवस्त्रिकादिभगवल्लिङ्गधारिणस्तु कथम् ? अत्रोच्यते-सम्यग्ज्ञानादिविकलेन लिङ्गमात्रेण न किञ्चित् त्राणम् । तथा च -
१. मुक्खपहा T.C.PK २. भावविकलत्वेनाप्रधानप्रव्रजितादिनेपथ्यधरणलक्षणं विद्यते T.B.C