________________
१३६
रणम - सम्यक्त्वप्रकरणम
चक्रे० : कुग्रहश्च विवेकिभिर्न कार्य इत्याहुः - देव० : कुग्रहत्वमेव तेषां प्रकटयति -
जम्हा न मोक्खमग्गे मुत्तूणं आगमं इह पमाणं ।
विज्जइ छउमत्थाणं तम्हा तत्थेव जइयव्वं ।।१०५।। चक्रे० : सुगमा ।।१०५ ।।
देव० : सुगमा, केवलं करणाधीनज्ञानिनां स्वर्गापवर्गमार्गादौ प्रत्यक्षादिप्रमाणाविषयत्वेनागमस्यैव प्रामाण्यम्, तथाहि- न तावत्तत्र प्रत्यक्षं प्रगल्भतेऽक्षव्यापारागोचरत्वाद्, नाप्यनुमानं साध्याविनाभाविनो लिङ्गस्य कस्यचिदनुपलम्भाद्, आगमस्त्वाप्तोपज्ञत्वादव्याहतप्रचार एव, ततस्तं विमुच्यान्यथा समाचरतां कुग्रह एवावशिष्यत इति।।१०५ ।।
* पञ्चवस्तौ-१७०७ * एतदेवाह -
जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं ।
विज्जइ छउमत्थाणं तम्हा एत्थेव जइअव्वं ।। यस्माद् न धर्ममार्गे परलोकगामिनि मुक्त्वाऽऽगममेकं परमार्थत इह प्रमाणं प्रत्याख्यानादि विद्यते छद्मस्थानां प्राणिनाम्, तस्मादत्रैवाऽऽगमे कुग्रहान् विहाय यतितव्यम्, जिज्ञासाश्रवणश्रवणानुष्ठानेषु (जिज्ञासाश्रवणश्रमणानुष्ठानेषु) यत्नः कार्यः, नागीतार्थजनाचरणपरेण भवितव्यमिति गाथार्थः ।।१७०७ ।।
* अभिधानराजेन्द्रकोषे 'आगम' शब्द-३७ * मोक्षमार्गे चागमस्यैव प्रामाण्यम् -
जम्हा न मोक्खमग्गे मोत्तूणं आगमं इह पमाणं ।
विज्जइ छउमत्थाणं तम्हा तत्थेव जइयव्वं ।। यस्मान नैव मोक्षमार्गे मोक्षे साध्ये मोक्षागमशास्त्रं परित्यज्येत्यर्थः, इहेति धर्मविचारे प्रमाणम्आलम्बनमित्यर्थः, विद्यते छद्मस्थानाम्, अतिशयवतां हि कथं चेत्सेवातिशयवशात्प्रवर्त्तमानानामपि निर्जरालाभ एवावसीयते, तद्रहितैः पुनः सर्वथा शास्त्रमेव प्रमाणीकर्त्तव्यम् । तस्मात्तत्रैव यतितव्यमुद्यमः कार्य इति गाथार्थः ।।३७।। १. मुक्खमग्गा T.C,P.K