________________
१४०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
* धर्मसंग्रहण्याम्-७४९ * तत्र स्वरूपं तावत्तस्यैवोपदर्शयन्नाह -
सम्मत्तनाणचरणा मोक्खपहो वनिओ जिणिंदेहिं ।
सो चेव भावधम्मो बुद्धिमता होति नायव्यो ।। यतः सम्यक्त्वज्ञानचरणानि जिनेन्द्रमोक्षपथो वर्णितस्ततः स एव बुद्धिमता भावधर्मो भवति ज्ञातव्यः । तस्यैव शिवगतिधारणादिलक्षणान्वर्थयुक्तत्वात् ।।७४९।।
चक्रे० : ज्ञानादीनामेव स्वरूपमाहुः - देव० : ज्ञानादीनामेव स्वरूपमाह -
सन्नाणं वत्थुगओ बोहो सदसणं च तत्तरुई ।
सञ्चरणमणुट्ठाणं विहिपडिसेहाणुगं तत्थ।।१०८।। चक्रे० : तत्र सज्ज्ञानं वस्तूनि जीवाजीवादितत्त्वानि, तद्गतो बोधः । सद्दर्शनं च सम्यक्त्वं तत्त्वरुचिस्तत्त्वाऽभिलाषः । विधिरुपादेयेषु, प्रतिषेधो हेयेषु, तदनुगमनुष्ठानं क्रियाकलापः सञ्चरणं सञ्चारित्रम्।।१०८ ।।
देव० : वस्तूनि जीवादयः पदार्थास्तेषु गतः स्थितो वस्त्वनुरूपः संशयविपर्ययरहित इत्यर्थो बोधः संवित्किमित्याह-सत् सम्यग्ज्ञानं सज्ज्ञानमुच्यत इति शेषः । तथा तत्त्वेषु जिनप्रज्ञप्तेषु रुचिरभिलाषः, किम् ? सद्दर्शनं सम्यक्त्वमित्यर्थः । तथानुष्ठानं क्रियाकलापः, किंविशिष्टम् ? विधिप्रतिषेधानुगम्, तत्र विध्यनुगतमुपादेयेषु, प्रतिषेधानुगं हेयेषु, किम् ? सच्चरणं शोभनचारित्रम्, तत्रेति व्याख्याक्रमार्थः, इति गाथार्थः ।।१०८ ।।
* योगशतके-३ * सज्ज्ञानादिलक्षणमाह -
सण्णाणं वत्थुगओ बोहो सदसणं तु तत्थ रुई।
सच्चरणमणुट्ठाणं विहिपडिसेहाणुगं तत्थ ।। सज्ज्ञानं सम्यग्ज्ञानं वस्तुगतः वस्त्वाव(स्त्वा)लम्बनो बोधः परिच्छेदः, निरालम्बनस्य बोधस्यासम्भवात्, सम्भवेऽपि सज्ज्ञानत्वायोगात्, मरुमरीचिकादिबोधे तथादर्शनात्, अन्यथाऽस्य सदितरत्वाभाव इति । तथा