________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
तत्र
दृष्टो विलोकितः सामान्यरूपेण, सुज्ञातो विशेषेणोत्सर्गापवादतो मार्गो यैस्ते तथा शुभमार्गलग्नाः, सम्यगनुष्ठानान्न लगन्ति न सजन्ति, वव ? गतानुगामिनां जनानां मार्गे, गतमेवानुगच्छन्तीति गतानुगामिनः । न तत्त्वावलोकिनस्तेषाम्, किंविशिष्टे मार्गे ? गड्डरिकास्तासां प्रवाहो नैरन्तर्यश्रेणिगमनं स इव तस्मिन् यथा हि गड्डरिकायामेकस्यां क्वापि प्रस्थितायां विचारशून्यमन्यास्तामेवानुव्रजन्ति, एवं केचिदपरीक्षिततत्त्वाः प्रवृत्तिप्रधानलोकप्रवृत्तमेव मार्गमनुयान्ति, विवेकिनस्तु समयतत्त्वमेवानुसरन्तीति वृत्तार्थः । ।१००।।
चक्रे० : अथ 'महाजनो येन गतः स पन्थाः' इति ज्ञाताल्लोकप्रवृत्तिरेव श्रेयसीति ये मन्यन्ते तान् प्रत्याहुः
देव० : अथ 'महाजनो येन गतः स पन्थाः' इति न्यायाल्लोकप्रवृत्तिरेव श्रेयसीति ये मन्यन्ते तान् शिक्षयितुमाह
१३२
नेगंतेणं चिय लोगनायसारेण इत्थ होयव्वं ।
बहुमुंडाइवयणओ आणा इत्तो इह पमाणं ।। १०१ ।।
चक्रे० : एकान्तेनैव सर्वात्मनैव लोकस्याविवेकिजनस्य ज्ञातं दृष्टान्तः, स सारः प्रधानो यस्य स तथा, तद्विधेन न भाव्यमत्र मोक्षमार्गविचारे, कस्माद् बहुमुण्डादिवचनतो यदि लोकप्रवृत्तिरेव बलीयस्यभविष्यत् तदा नेदमागमवचनमभविष्यत्, तथाहि -
-
-
इत एतस्माद्धेतोराज्ञैव तीर्थकृदुक्तमेव इह प्रामाण्यविचारे प्रमाणम् । । १०१ ।।
देव० : एकान्तेनैव सर्वात्मनैव क्वचिल्लोकव्यवहारस्यापि पुरस्करणीयत्वादेकान्तेनेत्युक्तं
यदाह
कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य ।
होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ।। [ विचारसार- ५०२]
लोकज्ञातानि ।
१. हो अव्वं P. K
,
लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् ।
तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ।। [ प्रशमरति - १३१] इति ।। लोकस्याऽविवेकिनो जनस्य न्यायो व्यवहारः प्रवाह इति यावत् संसारः प्रधानो यस्य यदिवा