________________
३-मार्गतत्त्वम् गा-१०१
१३३
कलौ काले किलैतस्मिन् सम्मोहवशवर्तिनि ।
एतदेव महच्चित्रं नरायल्लिंगधारिणः ।। [ ] इत्याद्याः कुयुक्तयः साराणि यस्य स तथा तद्विधेन न भाव्यमत्र मोक्षमार्गे विचारे, कुतः ? बहुमुण्डादिवचनतो यदि हि लोकप्रवृत्तिरेव बलीयस्यभविष्यत्तदा नेदमागमवचनमभविष्यत्, तथाहि
कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य ।
होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ।। [विचारसार-५०२] इत एतस्माद्धेतोः सावधारणत्वादाजैव तीर्थकृदुक्तमेवेह प्रामाण्यविचारे प्रमाणं तत्त्वमिति गाथार्थः ।।१०१।।
* उपदेशपदे-८१२ *
अत एवाह -
णेगंतेणं चिय लोयणायसारेण एत्थ होयव्वं ।
बहुमुंडादिवयणओ आणावित्तो इह पमाणं ।। न नैवैकान्तेन सर्वथैव लोक एव पार्श्वस्थादिरूपो यदृच्छाप्रवृत्तो ज्ञातं दृष्टान्तं तत् सारमवलम्बनीयतया यस्य स तथा तेनात्र चारित्राराधने भवितव्यम् । कुत इत्याह-बहुमुण्डादिवचनतः । कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ।।
इति वचनात्, एतद्वचनपरिभावनेन पार्श्वस्थादीन् दृष्टान्तीकृत्य नासमञ्जसे प्रवर्तनीयमित्यर्थः । तथाविधापवादप्राप्तौ तु गुरुलाघवालोचनपरेण गीतार्थेन साधुना कदाचित् प्रवृत्तिसारेणापि भवितव्यमिति सूचनार्थमेकान्तेनेत्युपात्तम् । बहुवित्थरमुस्सग्गं बहुविहमववाय मो वियाणित्ता । लंघेऊणन्नविहं बहुगुणजुत्तं करेज्जासु ।।
अत एवाह-आज्ञावित्तक आज्ञैव वित्तं धनं सर्वस्वरूपं यस्य स तथा पुमानिह लोकोत्तराचारचिन्तायां प्रमाणीकर्त्तव्य इति ।।८१२ ।।