________________
३-मार्गतत्त्वम् गा-९९, १००
१३१
स एव ज्वलनः परिसन्तापकत्वेन, तेन ज्वलिते प्रदीप्ते, इह च भवस्थेषु प्राणिष्वपि स्थितः प्रमादो भव उपचर्यते । मोह एव चैतन्यतिरोधायकत्वान्निद्रा तया स्वपन्तं शयानं मानुषमिति गम्यम्, उत्थापयति प्रबोधयति यः स जनो गुर्वादिस्तस्य स्वप्तुः परमबन्धुरात्यन्तिकैकान्तिकस्वजन इति गाथार्थः । ।९८ ।।। चक्रे० : अधुना प्राक्प्ररूपितं शुद्धप्ररूपकमेवोपबृंहयन्ति - देव० : अधुना प्राक्प्ररूपितं शुद्धप्ररूपकमेवोपबृंहयति -
जइवि हु सकम्मदोसा मणयं सीयंति चरणकरणेसु ।
सुद्धप्परूवगा तेण भावओ पूयणिज्जत्ति ।।१९।। चक्रे० : हुरेवकारार्थः, स च तेनेत्यत्र यो लक्ष्यते । यद्यपि स्वकर्मदोषान्मनाक सीदन्ति चरणकरणयोः, तथापीत्यध्याहारस्तथापि शुद्धप्ररूपकास्तेनैव शुद्धप्ररूपकत्वगुणेन भावतो निरुपचारं पूजनीयाः, इति प्रस्तुतप्रक्रमसमाप्तौ।।९९।।
देव० : यद्यपि हुरेवकारार्थः, स चान्ते योक्ष्यते । स्वकर्मदोषानिबिडचारित्रावरणीयकर्मोदयलक्षणान्मनाक्किञ्चित्सीदन्ति मन्दायन्ते चरणकरणयोर्वक्ष्यमाणस्वरूपयोः, तथापीत्यध्याहारः, शुद्धप्ररूपका यथास्थितमार्गप्रदेशकास्तेनैव शुद्धप्ररूपकत्वलक्षणेन गुणेन भावतो निरुपचारं पूजनीयाः सत्कारार्हाः, इतिः प्रस्तुतप्रक्रमसमाप्ताविति गाथार्थः ।।९९ ।।
चक्रे० : इत्थं मार्गशुद्धौ प्ररूपितायां विवेकिनो यत्कुर्वन्ति तदाहुः - देव० : इत्थं मार्गशुद्धौ प्रतिपादितायां विवेकिनो यत्कुर्वन्ति तदाह -
एवं जिया आगमदिट्ठिदिट्ट सुन्नायमग्गा सुहमग्गलग्गा ।
गयाणुगामीण, जणाण मग्गे लग्गति नो गड्डरियापवाहे ।।१००।। चक्रे० : एवमुक्तन्यायाज्जीवा भव्यप्राणिन आगमदृष्ट्या दृष्टः सामान्येन, सुज्ञातो विशेषेणोत्सर्गापवादतो मार्गों यैस्ते तथा शुभमार्गलग्नाः, गतानुगामिनां जनानां मार्गे गड्डरिकाप्रवाह इव गडरिकाप्रवाहे गडरिकाप्रवाहकल्पे न लगन्त्यागमोक्तमार्गमेवानुसरन्तीत्यर्थः । १०० ।।
देव० : एवमुक्तन्यायाज्जीवा भव्यप्राणिन आगम एव सन्मार्गदर्शकत्वेन दृष्टिलोचनं तया १. अज्ञानसारूप्यान्निद्रा T,B,C २. जीवमिति A ३. पूयणिज्जंति T.C.Z