________________
१३०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : ननु यद्येवं गरीयान् दोषस्तत्कथमन्यथा कथयन्तीत्याहुः - देव० : ननु यद्येवं गरीयान् दोषस्तत्कथमन्यथा कथयन्तीत्याह - मुहमहरं परिणइ-मंगुलं च गिति दिंति उवएसं । मुहकडुयं परिणइसुंदरं च विरलचिय भांति । । ९७ ।। चक्रे० : सुगमैव, नवरं मङ्गुलमसुन्दरम् ।।९७।।
देव० : मुखे प्रारम्भ उच्चारकाले मधुरं प्रियः श्रोतृयादृच्छिकसमाचारानुकूल इत्यर्थस्तम् । परिणतौ परिपाके मङ्गुलोऽसुन्दरो विपाकदारुणत्वात्, चशब्दस्यापिशब्दार्थत्वात्तमप्युपदेशं गृह्णन्ति श्रोतारो ददति चाऽऽचार्यादयो बहवः । मुखकटुकं श्रवणाप्रियं परिणति सुन्दरमप्युपदेशमितीहापि योगः, विरला एव भणन्ति प्रस्तुतत्वाद् गृह्णन्ति च, यदाह सुलभाः पुरुषा राजन् ! अपथ्यप्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।। [ ] इति गाथार्थः । । ९७ ।। चक्रे० : अथ यथावस्थितहितवादिनो वक्तुः परमोपकारितामाहुः - देव० : अथ मुखकटुकपरिणामसुन्दरवादिनो वक्तुः परमोपकारितामाह - भवगिहमज्झम्मि पमायजलणजलियंमि मोहनिद्दाए । उट्ठवइ जो सुयंतं सो तस्स जणो परमबन्धू । । ९८ । ।
चक्रे० : भवगृहमध्ये प्रमादज्वलनज्वलिते, मोहोऽज्ञानसारूप्यान्निद्रा तया स्वपन्तं य उत्थापयति प्रबोधयति स जनो गुर्वादिस्तस्य परमबन्धुः । अभयकुमार इवार्द्रककुमारस्य ।। ९८ ।।
-
-
देव० : भव एव गृहं जीवावस्थितिसाधर्म्याद्भवगृहम्, तस्य मध्यमन्तस्तत्र किं विशिष्टे ? प्रमादोऽष्टधा, तद्यथा
अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ।
रागो द्वेषोऽनवस्था च स्मृतेर्धर्मेष्वनादरः ।। [
योगदुष्प्रणिधानं च प्रमादोऽष्टविधः स्मृतः ।
१. गेण्हंति देंति A २. प्रमादो मद्यादिरज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशधर्मानादरयोगदुः प्रणिधानरूपो वा T,B,C
]