________________
३-मार्गतत्त्वम् गा-९६
१२९
देव० : हुर्वाक्यालङ्कारे, भवेत् स्याद् व्यसनप्राप्त आपद्गत इन्द्रियार्थाशक्तो वा, वाशब्दाध्याहाराद्वार्धक्यरोगादिकृतया शरीरदुर्बलतया, लकारस्य द्वित्वं प्राकृतत्वाद्, असमर्थो वा स्वाध्यायप्रतिलेखनादिक्रियां कर्तुमशक्तः, ततः किं कुर्यादित्याह-चरणं च व्रतादि, करणं च पिण्डविशुद्धयादि तस्मिन्नशुद्धेऽभिहितनीत्याऽतिचारमलकलुषित आत्मानं निन्दन् शुद्धं यथास्थितं मार्ग ज्ञानादिरूपं प्ररूपयेदुपदिशेत्, स हि सिद्धान्तानुरागादात्मानं निन्दन्मार्गानुपाती भवत्युक्तं च -
__ ओसन्नो वि विहारे कम्मं सिढिलेइ सुलहबोही य ।
चरणकरणं विसुद्धं उववूहंतो परूवेंतो ।। [निशीथसूत्र-५४३६] इति गाथार्थः ।।९५ ।। चक्रे० : एतद्विपर्यये दोषमाहुः - देव० : एतद्विपर्यये दोषमाह -
परिवारपूयहेउं पासत्थाणं च आणुवित्तीए ।
जो न कहेइ विसुद्धं तं दुल्लहबोहियं जाण ।।९६।। चक्रे० : सुगमा, नवरं 'परिवारपूयहेउंति परिवारश्च पूजा च परिवारपूजे, तयोर्निमित्तम् । यदि विशुद्धं खरतरम्, अतिताडितं मागं कथयिष्यामि तदा न कोऽप्यस्मान् परिवारयिष्यति, न नः कोऽपि पूजां करिष्यति कोमलमार्गरुचित्वाल्लोकस्येति।।९६।।।
देव० : परिवारश्च परिच्छदः साध्वादिः, पूजा च वस्त्रपात्रादिभिः सत्कारस्तयोर्हेतुं निमित्तम्, ह्रस्वत्वं प्राकृतत्वात् । पार्श्वे ज्ञानादीनां समीपे तिष्ठन्तीति पार्श्वस्थास्तेषामुपलक्षणं चैतदवसन्नादीनामनुवृत्त्या तच्चित्तावर्जनार्थम्, चकाराल्लोकयात्राद्यर्थं च, यः कश्चिल्लुब्धो न कथयति न प्ररूपयति विशुद्धं मार्गमिति गम्यम् । इदमत्र हृदयम्-मनाक् शुद्धात्मापि यः शिथिलपरिवारभयाद्विज्ञातैषणीयानैषणीयाः श्रावका वा वस्त्रपात्रादिभिर्मे पूजां न विधास्यन्ति, पार्श्वस्थादयो वा कुपिताः सन्तो ग्रामादेर्निष्कासयिष्यन्तीति कृत्वा विशुद्धं न कथयति, तं दुर्लभबोधिकं बोधिः प्रेत्यजिनधर्मावाप्तिः सा दुर्लभा यस्य सम्यग्मार्गलोपात् स तथा, तमनन्तसंसारिकमित्यर्थो जानीहि बुध्यस्व हे शिष्य ! इति गाथार्थः ।।९६ ।। १. आणुवत्तीए P.K. आणुपुव्वीए 2 २. साध्वाभासो T. C