________________
१२८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम
देव० : पृच्छतां धर्मं गृहियतिभेदभिन्नम्, तमपि च कथ्यमानं धर्मं परीक्षितुं विवेक्तुमसमर्थानां मुग्धबुद्धित्वाद्, अनेन तेषामत्यन्तानुकम्पनीयतामाह, भव्यप्राणिनामिति गम्यते, आहारोऽशनादिरूपलक्षणं चैतद्वस्त्रपात्रपूजादीनाम्, तन्मात्रे सिद्धिसुखविमुखतया लुब्धा गृद्धा ये यथाछन्दादय उन्मार्गमुत्पथमशुद्धदानादिरूपमुपदिशन्ति कथयन्ति ‘मा ममैते विवेकिनः सन्त आधाकर्मादिदोषदूषितमाहारादि न दास्यन्ति' इत्यनेन च तेषामतिक्लिष्टतामाह, यदुच्यते
जह सरणमुवगयाणं जीवाणं निकिंतइ सिरे जो उ ।
एवं आयरिओ वि हु उस्सुत्तं पन्नवंतो उ ।। [उपदेशमाला-४१७] यत्तदोर्नित्यसम्बन्धात्ते किमित्याह-सुगतिं स्वर्गापवर्गादिकां तेषां पृच्छकानां नन्ति बाधन्त उन्मार्गस्थापितानां तेषां सुगतिहानेस्तन्मूलत्वात्तथा ते धार्मिकजनस्य कलिकालेऽपि यथाशक्ति यतमानस्य विशुद्धाहारवस्त्रपात्रोपाश्रयग्राहिणो निन्दनं हीलनं कुर्वाणा यथैते बकवृत्तयो विप्रतारका देयग्राहकादिशुद्धिव्याजेन साधूनां दानं च निवारयन्त्यतो नैतद्वचः श्रोतव्यमिति ।
आहाराय प्रशंसा आहारप्रशंसाः कलिकालकल्पद्रुमाः, सङ्घपुरुषा भवन्तः, भवदीयदानेनैव तीर्थं प्रवर्तते, एषणीयानेषणीयविचारणं च कार्पण्यलक्षणमित्येवंलक्षणा आहारदानमेवोत्तममित्यादिरूपा वा, ताभिः, सप्तमी चेयं तृतीयार्थे, चः पूर्वोक्तसमुच्चये नयन्ति प्रापयन्ति दुर्गतिं नैरयिक्यादिकां जनं लोकं बहुकं प्रभूतमिति गाथाद्वयार्थः ।।९३,९४ ।।
चक्रे० : अधुना यः शरीरसामर्थ्यादिविरहात्क्रियाशिथिलो मनाक्शुद्धचित्ततया परलोकाभिमुखश्च तस्योपदेशमाहुः -
देव० : अधुना यः शरीरसामर्थ्यादिविरहात्क्रियाशिथिलो मनाक्शुद्धचित्ततया परलोकाभिमुखश्च तस्योपदेशमाह -
हुज्ज हु वसणप्पत्तो सरीरदोब्बल्लयाए असमत्थो ।
चरणकरणे असुद्धे सुद्धं मग्गं पंरूविज्जा ।।९५ ।। चक्रे० : हुर्वाक्यालङ्कारे, भवेद् व्यसनप्राप्त आपद्गतः, इन्द्रियार्थाशक्तो वा, वाशब्दस्याध्याहाराद्वार्द्धक्यरोगादिकृतेन शरीरदौर्बल्येनाऽसमर्थो वा क्रियां कर्तुम् । ततश्चरणं व्रतादि, करणं पिण्डविशुद्ध्यादि तस्मिन्त्रशुद्ध सातिचारमले शुद्धं मार्ग ज्ञानादिरूपं प्ररूपयेत् श्रेणिकसुतनन्दीषणवत् ।।९५।। १. भवदीयमानेन A. २. वसणुप्पत्तो T,C.Z ३. परूवेज्जा A.Z