________________
३-मार्गतत्त्वम् गा-९३, ९४
१२७
मपवादम्, किन्तूभयमपि यथायोगमालम्बत इत्यर्थः । ५-भावे विधिसारे धर्मानुष्ठाने करणस्वरूपे कुशलः । इदमुक्तं भवति-विधिकारिणमन्यं बहु मन्यते, स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्त्तते । सामग्र्या अभावे पुनर्विध्याराधनमनोरथान्न मुञ्चत्येवेति । ६-व्यवहारे गीतार्थाचरितरूपे कुशल: देशकालाद्यपेक्षयोत्सर्गापवादवेदिगुरुलाघवपरिज्ञाननिपुणगीतार्थाचरितं व्यवहारं न दूषयतीति भावः ।
एसो पवयणकुसलो छन्भेओ मुणिवरेहिं निद्दिट्ठो । किरियागयाइँ छव्विहलिंगाई भावसद्दस्स ।। एतानि भावश्रावकस्य क्रियोपलक्षणानि षडेव लिङ्गानि ।।५२।।
चक्रे० : अथ ये सिद्धान्तमपहृत्योन्मार्गमुपदिशन्ति साधुनिन्दां च कुर्वन्ति तेषां विश्वस्तघातित्वमाहुः -
देव० : एवं च सति ये सिद्धान्ततत्त्वमपहृत्योन्मार्गमुपदिशन्ति सुसाधुनिन्दां च कुर्वन्ति तेषां विश्वस्तघातित्वमाह -
पुच्छंताणं धम्मं तंपि य न परिक्खिउं समत्थाणं । आहारमित्तलुद्धा जे उम्मग्गं उवइसंति ।।१३।। सुगई हणंति तेसिं धम्मियजणनिंदणं करेमाणा ।
आहारपसंसासु य निति जणं दुग्गई बहुयं ।।९४ ।। चक्रे० : पृच्छतां प्रश्नयतां भव्यानाम्, धर्मं गृहियतिभेदभिन्नम्, तमपि च कथ्यमानं परीक्षितुमसमर्थानां मुग्धबुद्धित्वात्, अनेन तेषामत्यन्ताऽनुकम्प्यत्वमुक्तम् । आहारोऽशनादिः, उपलक्षणं चैतद् वस्त्रपात्रपूजादेः, तन्मात्रे सिद्धिसुखवैमुख्याल्लुब्धा ये यथाच्छन्दादय उन्मार्गमशुद्धदानादिरूपमुपदिशन्ति ‘मा ममैते विवेकिनः सन्तः, आधाकर्मादिदोषदूषितमाहारादि न दास्यन्ति' अनेन च तेषामतिक्लिष्टतामाहुः, यदुक्तम् -
जह सरणमुवगयाणं जीवाणं निकिंतइ सिरे जो उ ।
एवं आयरिओ वि हु उस्सुत्तं पन्नवंतो उ ।। [उपदेशमाला-५१७] यत्तदोर्नित्यसम्बन्धात्ते किमित्याहुः, सुगतिं घ्नन्ति तेषां पृच्छकानामुन्मार्गस्थापितानाम् । धार्मिकजनः शुद्धाहारवस्त्रपात्रोपाश्रयग्राही यतिजनस्तस्य निन्दनं 'मायाविन एते' इत्यादिकं कुर्वाणाः सप्तम्यास्तृतीयार्थत्वादाहारप्रशंसाभिः, आहारार्थं कल्पद्रुमा यूयमित्यादिश्रावकप्रशंसाभिः, आहारदानमेवोत्तममित्यादिकाभिर्वा नयन्ति जनं दुर्गतिं बहुकमिति गाथाद्वयार्थः ।।९३, ९४ ।। १. नेति T.Cणंति A२. दोगई AT.C