________________
१२६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
षट्स्थानात्, षण्णां स्थानानां समाहारः षट्स्थानम्, तदाश्रित्य ल्यब्लोपे पञ्चमी, प्रवचनकुशला भवन्ति । चः प्राग्वर्णनापेक्षया समुच्चये, अनेन च प्रवचनकौशल्येन कृतव्रतपरिकर्मतादीन्यपराण्यपि पञ्चपदान्युपलक्ष्यन्ते, तथा चाह -
कयवयकम्मयभावो सीलत्तं चेव तह य गुणवत्तं । रिउमइववहरणं चिय गुरुसुस्सूसा य बोद्धव्वा ।। पवयणकोसल्लं पुण छटुं ठाणं तु होइ णायव्वं ।
छट्ठाणगुणेहिं जुओ उक्कोसो सावगो होइ ।। [षट्स्थानकप्र० १, २] एतद्व्याख्या तु षट्स्थानकादवसेया, तदेवमुपासकानां सूक्ष्मार्थविचारनिपुणतायाः सूत्रेऽभिधानात् सूक्ष्मविचारस्तेषां न कथ्यत इति यदुक्तं तदपास्तमिति गाथात्रयार्थः ।।१२।।
* धर्मरत्नप्रकरणे-९२ * सम्प्रति तदेव प्रवचनकुशल इति षष्ठमाह -
सुत्ते अत्थे य तहा उस्सग्गववायभावववहारे ।
जो कुसलत्तं पत्तो पवयणकुसलो तओ छद्धा ।। इह प्रकृष्टं वचनं प्रवचनमागमः, स च सूत्रादिभेदात् षोढा, अतस्तदुपाधिकं कौशलमपि षोढा, तत्सम्बन्धात् कुशलोऽपि षोद्वैवेत्याह-सूत्रे सूत्रविषये यः कुशलत्वं प्राप्त इति प्रत्येकं योजनीयम् । तथा ऽर्थे सूत्राभिधेये, चः समुच्चये, तथा तेनैव प्रकारेणोत्सर्गे सामान्योक्तौ, अपवादे विशेषभणिते, भावे विधिसारधर्मानुष्ठानकरणस्वरूपे, व्यवहारे गीतार्थाचरितरूपे, सूत्रे समाहारस्यैकत्वेऽपि सप्तम्या पृथग् व्याख्यानं बालावबोधनार्थम् । एतेषु यः कुशलत्वं प्राप्तः सद्गुरूपदेशादेव प्रवचनकुशलः 'तउ' त्ति स भवति षोढा षट् प्रकार इति गाथाऽक्षरार्थः ।।१२।।
* अभिधानराजेन्द्रकोषे 'पवयणकुसल' शब्दे-५२ * अथ प्रवचनकुशल इति षष्टं भावश्रावकलक्षणं चेत्थम् -
सुत्ते अत्थे अ तहा उस्सग्गऽववाए भावे ववहारे।
जो कुसलत्तं पत्तो पवयणकुसलो तओ छद्धा ।। १-सूत्रे सूत्रविषये यः कुशलत्वं प्राप्त इति प्रत्येकं योजनीयम् । श्रावकपर्यायोचितसूत्राध्येतेत्यर्थः । २-तथाऽर्थे सूत्राभिधेये संविग्नगीतार्थसमीपे सूत्रार्थश्रवणेन कुशलत्वं प्राप्त इत्यर्थः। ३-उत्सर्गे सामान्योक्तौ। ४-अपवादे विशेषभणिते कुशलः । अयं भावः - केवलं नोत्सर्गमेवावलम्बते, नापि केवल