________________
३-मार्गतत्त्वम् गा-९०, ९१, ९२
१२५
तथास्थीनि चास्थिमज्जाश्च च तद्गर्भरूपाः, अनुरागेण प्रस्तावाज्जिनमतप्रेम्णा रक्ता इव रक्ता वासनासाधाद्, अस्थ्यस्थिमज्जानुरागरक्ता येषां ते तथा, क्तान्तस्येह परनिपातेऽभिधानात्, कथमित्याह-एष साक्षान्निषेव्यमाणो जिनप्रज्ञप्तो धर्मोऽर्थो वस्तुरूपतयोपादेयः, परमार्थस्तत्त्वभूतः परमगतिहेतुत्वात्, शेषकः शिवशाक्यकपिलादिप्रणीतः, विभक्तिलोपो मकारश्चेह प्राकृतत्वात्, अनर्थोऽवस्तुरूपस्तदियता भगवत्यङ्गाधुक्तदण्डकोऽर्थतः संसूचितः, स चायम्'अहिगयजीवाजीवा उवलद्धपुनपावासवसंवरनिज्जरकिरिया अहिगरणबंधप्पमुखकुसला असहिज्जा देवासुरनागसुवनजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा निग्गंथे पावयणे निस्संकिया निक्कंखिया निव्वित्तिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा अहिगयट्ठा विणिच्छियट्ठा अट्ठिमिंजपेमाणुरागरत्ता अयमाउसो निग्गंथे पावयणे अढे अयं परमट्टे सेसे अणटे ऊसियपलिहअवंगुयदुवारावियतंतेउरघरप्पवेसा बहुहिं सीलवयगुणवेरमणपच्चक्खाणपोसहोववासेहिं चाउद्दसट्ठमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणा अहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति'त्ति ।।९१।।
तथा कुशलशब्दस्योभयत्रापि सम्बन्धात् पदवाक्यादिविच्छेदप्रधानोदात्तादिघोषविशुद्धास्खलितत्वादिगुणोपेतसूत्रोच्चारणपरिज्ञानात् सूत्रे कुशलाः, सुगुरुसम्प्रदायतः स्वसमयपरसमयनिश्चयव्यवहारनयादिविभागेन सूत्राभिधेयस्थापनादर्थे कुशलाः, सामान्योक्तो विधिरुत्सर्गो यथा 'सव्वं भंते पाणाइवायं पच्चक्खामि'इत्यादि विशेषोक्तो विधिरपवादो यथा 'पुढवाइसु आसेवा'इत्यादि वक्ष्यमाणम्, ततश्च तयोर्भवमौत्सर्गापवादिकं कार्यमिति शेषस्तत्र तथापरिज्ञानप्रकारेण कुशलाः।
व्यवहारश्चतुर्धा धर्मार्थकामलोकभेदात्, तत्र धर्मे यद्देवताबिम्बविक्रयेण न जीवति, देवद्रव्यं च स्वर्णादिग्रहणकमन्तरेण न वर्धयति, नात्मनाप्यङ्गोद्धारकेण गृह्णाति, न च देवद्रव्याधीनत्वेनाधमर्णान् शरीरेण शकटबलीवर्दादिना वा वेष्ट्यादि कारयति, अर्थेऽवन्ध्यफलदायकनिरवद्यक्रयाणकसङ्ग्रहः, कामे गृहमेधिन्या मार्दवेनानुवर्त्तनम्, सदा हृदयानर्पणं च, लोके राजकुलगमनतद्विरुद्धवर्जनप्रधानजनसंसर्गजन्मश्रुतजात्यादि वृद्धसेवनादि, एवंविधे व्यवहारे कुशला दक्षाः, भावकुशला बाह्यान्तरचेष्टाभिरभिप्रायपरिज्ञानपूर्वमभिनवधर्माणां स्थिरीकरणविधायिनो लोकेऽपि पराभिप्रायकौशल्यादात्मपरानाबाधया सर्वत्र प्रवृत्तिकारिणः, इतिशब्दाध्याहारादित्येवं १. अज्जानिग्गंथे A