________________
१२४
रणम - सम्यक्त्वप्रकरणम
चक्रे० : तथाहि - देव० : तथाहि -
लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा य । अहिगयजीवाईया अचालणिज्जा पवयणाओ ।।१०।। तह अट्ठिअट्ठिमज्जाणुरायरत्ता जिणिंदपन्नत्तो । एसो धम्मो अट्ठो परमट्ठो सेसगमणट्ठो ।।९१।। सुत्ते अत्थे कुसला उस्सग्गववाइए तहा कुसला ।
ववहारभावकुसला पवयणकुसला य छट्ठाणा ।।१२।। चक्रे० : तत्र लब्धार्था निरन्तरश्रवणतः, गृहीतार्थाः सम्यगवधारणतः, पृष्टार्थाः क्वचित् संशये सति, विनिश्चितार्थास्तत्त्वार्थोपलम्भात्, अधिगतजीवादिकाः ज्ञातजीवाजीवपुण्यपापाश्रवसंवरबन्धनिर्जरामोक्षतत्त्वा अचालनीयाः प्रवचनात् ।।१०।।
तथाऽस्थीनि चास्थिमज्जाश्च तद्गर्भरूपाः, अनुरागेण प्रस्तावाज्जिनमतप्रेम्णा रक्ता इव रक्ता वासनासाधर्म्यात्, अस्थ्यस्थिमज्जा अनुरागरक्ता येषां ते तथा । कथमित्याहुः, एष साक्षादासेव्यमानो जिनेन्द्रप्रज्ञप्तो धर्मोऽर्थो वस्तुरूपतयोपादेयः परमार्थस्तत्त्वभूतः परमगतिहेतुत्वात्, शेषकः शिवशाक्यादिप्रणीतोऽनर्थो वस्तुरूप इति।।९१।।
सूत्रे स्वाध्ययनयोग्यसुव्यक्तसूत्रोच्चारणे कुशलाः, निरन्तरसिद्धान्तार्थश्रवणादर्थे कुशलाः, उत्सर्गापवादिके कार्ये कुशलाः, व्यवहारश्चतुर्द्धा धर्मार्थकामलोकभेदात्, तत्र कुशलाः, भावकुशला बाह्यान्तरचेष्टाभिरभिप्रायपरिज्ञानपूर्वमभिनवधर्माणां स्थिरीकरणविधायिनः । इति शब्दाध्याहारादित्येवं षट्स्थानात्, ल्यब्लोपे पञ्चमीति षट्स्थानमाश्रित्यैतानि षट्स्थानान्यधिकृत्य कुशलाः प्रवचनकुशला भवन्तीति गाथात्रयार्थः ।।१२।।
देव० : तत्र लब्धार्था निरन्तरश्रवणतः, गृहीतार्थाः सम्यगवधारणतः, प्रश्रितार्थाः क्वचित्संशये सति, विनिश्चितार्था ऐदम्पयर्थोपलम्भात्, चकारो विशेषणसमुच्चये । अधिगताः स्वस्वरूपेण विदिता जीवादयः, आदिशब्दादजीवपुण्यपापाश्रवसंवरादयो दण्डकोक्ताः पदार्था यैस्ते तथा, अत एवाऽचालनीयाः क्षोभयितुमशक्या: प्रवचनाज्जैनेन्द्रशासनात् ।।१०।।