SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ३-मार्गतत्त्वम् गा-८६ तित्थयरुद्देसेणऽवि सिढिलिज्ज न संजमं सुगइमूलं । तित्थयरेणवि जम्हा समयम्मि इमं विणिद्दिटुं ।। तीर्थकरमप्युद्दिश्य पूजाद्यारम्भप्रवृत्त्या सुगतेः परमनिबन्धनं संयम साधुन शिथिलीकुर्यात्, यस्मात् कारणाद् यदर्थं पुष्पसंघट्टाद्यारम्भं चिकीर्षसि त्वं तेनापि तीर्थकरेण सिद्धान्त इदं वक्ष्यमाणं निर्दिष्टमिति गाथार्थः ।।२३०।। * अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-१७ * ननु कथमसौ बाल: ? स हि धार्थितया तीर्थकरानुद्दिश्य प्रवर्त्ततेऽतो युक्तमेवेति यो मन्यते, तं प्रत्याह - तित्थयरुद्देसेण वि सिढिलिज्ज न संजमं सुगइमूलं । तित्थगरेण वि जम्हा समयम्मि इमं विणिद्दिष्टुं ।। तीर्थङ्करोद्देशेनापि न केवलमन्योद्देशेनेत्यऽपिशब्दार्थः । शिथिलयेच्छिथिलं विदध्यात्, न नैव, कमित्याह-संयमं सर्वविरतिं सुगतिमूलं मोक्षस्यैकान्तप्रापकम्, तीर्थकरेणापि यदुद्देशेन सावद्यानुष्ठाने प्रवृत्तिर्विधीयते तेनापीत्यपिशब्दार्थः । यस्मात्समये सिद्धान्ते, इदं विनिर्दिष्टं प्रतिपादितमिति गाथार्थः ।।१७।। चक्रे० : एतदेवाहुः - देव० : तदेवाह - सव्वरयणामएहिं विभूसियं जिणहरेहिं महिवलयं । जो कारिज्ज समग्गं तओ वि चरणं महिड्डियं ।।८६।। चक्रे० : सुगमा, नवरं 'सव्वरयणामएहिति दीर्घत्वं प्राकृतत्वात् । महर्टिकम् मेरुसर्षपोपमया गरीयः ।।८६।।। देव० : रत्नैर्वैडूर्यादिभिर्निर्वृत्तानि रत्नमयानि, सर्वाणि च सकलानि तानि रत्नमयानि च सर्वरत्नमयानि, यदिवा सर्वरत्ननिर्वृत्तानि सर्वरत्नमयानि, दीर्घत्वं प्राकृतत्वाद्, एतैर्जिनगृहैविभूषितं मण्डितं महिवलयं प्रतिग्राम प्रतिनगरं च भरतादिपृथ्वीपीठं यः कश्चिदतिशायिसम्पद्भक्तिपुण्यप्राग्भारोपेतश्चक्रवर्त्यादिः कारयेत्समग्रं परिपूर्णम्, ततोऽपि तस्मादपि सर्वोत्तमद्रव्यस्तवाच्चरणं सर्वविरतिस्वभावं महद्धिकं मेरुसर्षपोपमया गरीयः । आह च - १. कारेज्ज T.C.z
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy