________________
१२०
रणम् - सम्यक्त्वप्रकरणम
कंचणमणिसोवाणं थंभसहस्सूसियं सुवन्नतलं ।
जो कारिज्ज जिणघरं तओ वि तवसंजमो अहिओ ।। [उपदेशमाला-४९४] अतस्तादृशद्रव्यस्तवाराधका अपि सर्वसंवररूपं भावस्तवमाराध्यैवाभिलषितार्थसाधका भवन्ति । ननु जिनयात्रामहोत्सवामारिघोषणमहादानादिप्रवृत्तिहेतुकत्वेन प्रवचनप्रभावनाप्रधानत्वाद् द्रव्यस्तव एव महद्धिकः, यतः प्रवचनप्रभावनैव दर्शनसर्वस्वम् । तदुक्तम् -
इदं दर्शनसर्वस्वमिदं दर्शनजीवितम् ।
सामर्थ्येन यदर्थेन क्रियते शासनोन्नतिः ।। [ ] इति । अत्रोच्यते-प्रवचनप्रभावनाङ्गान्यपि जिनयात्रादीनि, षट्कायोपमर्दपुरस्सरं विधीयमानानि न तथाविधफलसाधनाय प्रभवन्ति, षट्कायहितमेव चार्हन्तः प्रतिपादयन्ति । उत्कृष्टतपः श्रुतचारित्रधारिणश्च परमार्थतः प्रवचनप्रभावकास्तदुपदेशादेव च जिनशासनोन्नतयः सर्वाः प्रवर्तन्ते, तस्मादनिपुणमतेरयमभिप्राय इत्युपेक्षणीयः । उक्तं च -
दवत्थओ य भावत्थओ या दवत्थओ बहुगुणो त्ति बुद्धिसिया । अनिउणमइवयणमिणं छज्जीवहियं जिणा बिंति ।। [पुष्पमाला-२३३] तस्मात् - अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दवत्थए कूवदिटुंतो ।। [पञ्चवस्तु-१२२४] इति गाथार्थः ।।८६ ।।
* उपदेशमाला पुष्पमालायाम्-२३२ * अथ चारित्रपरिपालनाच्चैत्यविधापनादिकं बहुगुणम्, अत्राह -
सव्वरयणामएहिं विहूसियं जिणहरेहिं महिवलयं ।
जो कारिज्ज समग्गं तओऽवि चरणं महिड्डीयं ।। प्रतिग्रामं प्रतिनगरं च सकलमपि पृथ्वीतलं सर्वरत्नमयैश्चैत्यैविभूषितं यः कारयेत् ततोऽपि 'व्याख्यानतो विशेषप्रतिपत्तेः' यथोक्तचैत्यविधायककृत्यादपि, आस्तामेकचैत्यमाविधायकादिकृत्यात्, किमित्याहचरणं महर्द्धिकं चारित्रप्रतिपालनं बहुगुणमित्यर्थः, यतः सर्वोत्कृष्टगुणादपि श्रावकादनन्तगुणविशुद्धगुणश्चारित्र्यागमे पठ्यते, अत एव कारितसर्वरत्नमयचैत्यभवनादयोऽपि भरतचक्रवर्त्यादयस्तद्दिनदीक्षमपि चारित्रिणं भक्तितः पञ्चाङ्गं प्रणिपतन्तीति गाथार्थः ।।२३२।।