________________
रणम् - सम्यक्त्वप्रकरणम
पयईए सावज्जं संतं जं सव्वहा विरुद्धं तु ।
धणिभेयम्मिवि महुरगसीयलिगाइव्व लोयम्मि ।। [पञ्चवस्तु-१००] इति गाथार्थः ।।८४ ।।
* धर्मसंग्रहण्याम्-९९१ *
अत्राह -
मंसनिवत्तिं काउं सेवइ 'दंतिक्कगं'ति धणिभेदा ।
इय चइऊणारंभं परववएसा कुणइ बालो ।। यथा कश्चित्पुरुषो मांसनिवृत्तिं कृत्वा ततो विवेकविकलतया 'दंतिक्कगं'ति ध्वनिभेदाच्छब्दभेदात्तदेव मांसं सेवते, इति एवममुना दृष्टान्तेनारम्भं त्यक्त्वा परव्यपदेशाद्रत्नत्रिकव्यपदेशेन करोत्यारम्भं बालोऽज्ञः, मांसनिवृत्तिं कृत्वा शब्दभेदेन तदेव मांसं खादयत इवास्यापि परव्यपदेशेनारम्भं कुर्वतो ध्रुवं नियमभङ्ग इति यावत् ।।९९१।।
चक्रे० : ननु धर्मार्थितया चैत्यादिचिन्तायां प्रवर्त्तमानः कथमसौ बाल: ? इति यो मन्यते, तमनुशासितुमाहुः -
देव० : ननु कथमसौ बाल: ? स हि धर्मार्थितया चैत्यादिचिन्तायां प्रवर्त्तत इति यो मन्यते, तमनुशासितुमाह -
तित्थयरुद्देसेण वि सिढिलिज्ज न संजमं सुगइमूलं ।
तित्थयरेण वि जम्हा समयंमि इमं विणिद्दिटुं ।।५।। चक्रे० : स्पष्टा ।।८५।।
देव० : तीर्थकरोद्देशेनाप्यास्तामन्यथा, न शिथिलयेन्न हासयेत्संयम चारित्रं सुगतिमूलं प्रधानमपवर्गकारणम्, किमिति यस्मात्तीर्थकरेणापि समये सिद्धान्त इदं वक्ष्यमाणमर्थतो विनिर्दिष्टं कथितमिति गाथार्थः ।।८५।।
* उपदेशमाला पुष्पमालायाम्-२३० * ततो व्यवस्थितमिदम्-निश्चयव्यवहारशुद्ध्या संयम एव मनो निश्चलं विधेयम्, न तु परीषहादितर्जितैरपि गृहवासाद्यभिलाषः कार्यः, स्यादेतत्-तर्हि गृहस्थत्वमप्रतिपद्यमाना एव गृहीतेनैव यतिवेषेण संयम शिथिलीकृत्य जिनपूजादिकं कुर्मः, अनेनापि प्रकारेण तावत् सुगतिं साधयिष्यामः, न च तीर्थकरोद्देशेनैवं क्रियमाणे संयमशिथिलीकरणमपि दोषाय सम्पत्स्यत इत्याशङ्क्याह -
१. अनादरयेत् T,B,C