________________
३-मार्गतत्त्वम् गा-८४
११७
देव० : सुगमैव, केवलं मूढः कृत्याकृत्यविवेकविकलः । गौतम इति भगवान् वर्धमानस्वामी गौतमगोत्रमिन्द्रभूतिमामन्त्रयते, अनेन चैतन्महानिशीथसूत्रं सूचयति, तथाहि -
'भयवं ! जे भावत्थयं गहाय दव्वत्थयं कुज्जा से किमालवेज्जा ? गोयमा ! असंजएइ वा अविरएइ वा, अप्पडिहयपञ्चक्खायपावकम्मेइ वा, निद्धमेइ वा, भट्ठपइन्नेइ वा, देवच्चएइ वा, देवभोइएइ वा, इत्यादि । अयतः षट्कायविराधनेन संयमभ्रंशादविरतः, श्रावकोऽपि न लिङ्गधारित्वाद्, मार्गद्वयाच्च्युत इति हृदयमिति गाथार्थः ।।८३।।
* अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-१५ * अतः किम् -
मोत्तूणं भावथयं जो दव्वत्थए पवट्टए मूढो ।
सो साहू वत्तव्यो गोयम ! अजओ अविरओ य ।। यो मौढ्याद्विषयलाम्पट्याद्वा महामोहग्रस्तबहुजनप्रवृत्तिदर्शनाद्वा, मुक्त्वा परित्यज्य, भावस्तवं सर्वसावधनिवृत्तिलक्षणम्, द्रव्यस्तवे सर्वसावधनिबन्धनरूपे, प्रवर्तते मूढः परमार्थमजानानः, स साधुर्वक्तव्यो भणनीयः, गौतम ! इन्द्रभूते ! अयतोऽविरतश्च । चशब्दादेतदपि द्रष्टव्यम्-असंयताविरताऽप्रतिहतपापकर्मा देवार्चक इति वा देवभोजक इति । अयमाशयः – यो हि भवपरम्पराभिरनेकाभिर्दुरापमक्षेपेण मोक्षसुखसाधकं सर्वसंवरस्वभावं संयमं प्राप्यापि मोहात्तस्य परित्यागेन पुष्पपूजादौ प्रवर्तते, स उभयत्र भ्रष्टतयाऽकिञ्चित्कर एवेति गाथार्थः ।।१५।।
चक्रे० : मूढ इति यदुक्तं तद् दृष्टान्तेन द्रढयति - देव० : मूढ इति यदुक्तं तद् दृष्टान्तेन द्रढयन्नाह -
मंसनिवित्तिं काउं सेवइ 'दंतिक्कयंति धणिभेया ।
इय चइऊणारंभं परववएसा कुणइ बालो ।।८४।। चक्रे० : प्रकटार्था, नवरं परव्यपदेशाद् देवादिव्यपदेशेन ।।८४ ।।
देव० : मांसं पिशितं तस्य निवृत्तिं कृत्वा कश्चिदविवेकात्सेवते तदेव, कथम् ? 'दंतिक्कययंति ध्वनिभेदाच्छब्दभेदेन, ‘इय' एवं त्यक्त्वाऽऽरम्भमेकग्रहणे तज्जातीयग्रहणात्परिग्रहं च परव्यपदेशाद्देवादिव्यपदेशेन करोति यतो बालोऽज्ञस्तदुक्तम् -
चइऊण य घरवासं आरंभपरिग्गहेसु वति । जं सन्नाभेएणं एयं अविवेगसामत्थं ।। [पञ्चवस्तु-९८ ] यतः -