________________
११६
* संबोधसित्तर्याम् ३६ *
द्रव्यस्तवभावस्तवौ हि क्रमेण श्राद्धसाधुधर्माविति तावेव विधिकृतौ यत्फलं जनयतस्तदाह
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
उक्कोसं दव्वत्थय आराहिय जाइ अनुयं जाव । भावत्थएण पावइ अंतमुहुत्तेण निव्वाणं ।।
'उक्कोसं' इति, प्राकृतत्वाद्विभक्तिपरिणाम उत्कर्षेण भावश्रावको द्रव्यस्तवं पुष्पादिभिः समभ्यर्चनमाराध्य विधिवदासेव्याऽच्युतं द्वादशं देवलोकं यावद् याति गच्छति, प्राकृतत्वाद्विभक्तिलोपः, यदुक्तं श्रीमहानिशीथे तृतीयाध्य
कंचणमणिसोवाणे थंभसहस्सूसिए सुवन्नतले । जो कारवेज्ज जिणहरे तओ वि तवसंजमो अणंतगुणो ।। इति । तवसंजमेण बहुभवसमज्जियं पावकम्ममललेवं । निट्ठाविऊण अइरा अणंतसोक्खं वए मोक्खं ।। काउंपि जिणाययणेहिं मंडियं सवमेइणीवीढं । दाणाइचउक्केणं सड्ढो गच्छिज्ज अच्चयं ण परओ ।। इति तथा भावस्तवेनोग्रविहारादिरूपसर्वविरतिसंयमेन क (का) रणभूतेनाऽन्तर्मुहूर्तेन दीक्षास्वीकरणानन्तरं घटिकाद्वयाभ्यन्तरमेव निर्वाणं मोक्षं प्राप्नोति तावता मरणात् । 'उक्कोसं' इतिपदमत्रापि योज्यम्, स्नातकस्य जघन्यतोऽन्तर्मुहूर्तेनैव निर्वाणश्रवणात् ।।३६।।
चक्रे० : एवं च सति -
देव : एवं च सति
-
मोत्तृणं भावथयं दव्वथए जो पयट्टए मूढो ।
सो साहू वत्तव्वो गोयम ! अजओ अविरओ य ।। ८३ ।।
चक्रे० : सुगमैव, केवलं गौतम इति भगवान् महावीरो गौतमगोत्रमिन्द्रभूतिमामन्त्रयते । अनेन चैतन्महानिशीथसूत्रं सूचयति, तथाहि -
‘भयवं ! जे भावत्थयं गहाय दव्वत्थयं कुज्जा से किमालवेज्जा ? गोयमा ! असंजएइ वा, अविरएइ वा, अप्पडिहयपञ्च्चक्खायपावक्कमेइ वा, निद्धमेइ वा, भट्ठपइन्नेइ वा, देवच्चएइ वा, देवभोइएइ वा' इत्यादि । अयतः षट्कार्याविराधनेन संयमभ्रंशादविरतः, श्रावकोऽपि न लिङ्गधारित्वाद्, मार्गद्वयच्युत इति भावः ।। ८३ ।।
१. मुत्तूणं T,CP,K, २. भावथयं जो दव्वथए पयट्टए A, Z भावत्थयं जो दव्वथए पयट्टइP, K