________________
३-मार्गतत्त्वम् गा-८०
भ्रंशम्, 'तो'त्ति ततो हेतोर्यतेरनगारस्य जगद्गुरवस्तीर्थकृतो नेच्छन्ति नानुजानन्ति पुष्पाण्यादिर्यस्मिंस्तत्पुष्पादिकमर्चनम्, यदिवा पुष्पादिकं पूजार्थं हस्तेन ग्रहीतुमिति शेषः, स्तवोपलक्षणं चेदम्, उक्तं च
सकलद्रव्य
छज्जीवकायसंजमो दव्वत्थए सो विरुज्झई कसिणो ।
तो कसिणसंजमविऊ पुप्फाईयं न इच्छंति ।। [ उपदेशमाला- २३४]
इति गाथार्थः।।७९।।
चक्रे० : अथ विशिष्टभावस्तवहेतुः पूजा, सा कथं यतेर्निषिध्यते ? अत आहुः देव० : ननु सर्वसंवररूपसंयमवतापि दर्शनशुद्धिर्विधेया, सा च तीर्थकृत्पूजातो विशेषतः सम्भवति, तत्कथमसौ निषिद्धयते ? अत आह
-
तं नत्थि भुवणमज्झे पूयाकम्मं न जं कयं तस्स । जेणेह परमआणा न खंडिया परमदेवस्स ।। ८० ।।
१९३
चक्रे० : स्पष्टा, नवरमिहेति प्रवचने । । ८० ।।
देव० : पूर्वार्धं सुगमम्, नवरमग्रे येनेति प्रयोगात्तेनेति सम्बध्यते, येन किम् ? येनेह भावस्तवविचारणायां परमा चासावाज्ञा च मनोवाक्कायशुद्ध्या सकलसत्त्वसंरक्षणपरा परमाऽऽज्ञा निर्देशः, परमत्वं चास्या निरुपमशिवसुखसाधकत्वात्, न खण्डिता नोल्लङ्घिता परमदेवस्य देवाधिदेवस्य तीर्थकृत इति यावत् । इदमैदंपर्यम् - यद्यपि साधुः पुष्पपूजादौ न प्रवर्तते तथापि सर्वप्रतिपत्तिमूलसर्वज्ञाऽऽज्ञापालनात् पूजादिविषये च देशनाद्वारेणोचितोपदेशादनुमोदनाच्चासौ दर्शनशुद्धिमान् भवत्येवेति गाथार्थः ।।८०।।
* अभिधानराजेन्द्रकोषे 'चेइय' शब्दे - १२ *
तं भुवणमज्झे पूयाकम्मं न जं कयं तस्स । जेणेह परमआणा न खंडिया परमदेवस्स ।।
-
तत्किमपि नास्ति न विद्यते, भुवनमध्ये त्रिभुवनेऽपि, पूजाकर्म्म पूजाविधानम्, यन्न कृतं यन्न निष्पादितम्, येन केनचिदनिर्दिष्टनाम्ना, इहेति पूजाविधानविचारे, परमोत्कृष्टाज्ञा परमाऽऽज्ञा, परमत्वं चाऽस्याः सकलकल्मषनिर्मूलनत्वेन सकलसुखविधायित्वात् किम् ? न खण्डिता नोल्लङ्घिता कस्येत्याहपरमदेवस्य वीतरागस्येत्यर्थः । अयमत्राभिप्रायः यद्यपि साधुः पुष्पपूजादौ न प्रवर्त्तते तथाऽपि