SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम चक्रे० : अथ जिनभवनकरणादिरिति पदं विवृण्वन्ति - देव० : अथ जिनभवनकरणादिरिति पदं विवृणोति - जिणभवणबिंबठावणजत्तापूयाइ सुत्तओ विहिणा । दव्वत्थय त्ति नेयं भावत्थयकारणत्तेण।।७८।। चक्रे० : जिनभवनबिम्बस्थापनयात्रापूजादि । यात्रा रथनिर्गमाऽष्टाह्निकादिका, सूत्रत आगममाश्रित्य, विधिना विधीयमान इति शेषः, द्रव्यस्तव इति ज्ञेयं भावस्तवकारणत्वेन भावस्तवजनकत्वेन ।।७८।। देव० : जिनस्यार्हतो भवनं च गृहम, बिम्बं च प्रतिमा, स्थापनं च प्रतिष्ठा, बिम्बस्यैव शोभनदिने प्रथमपूजा यात्रा च रथनिर्गमादिरूपा अष्टाह्निकादिका च, पूजा च पुष्पाद्यर्चनमादिर्यस्य जिनगुणगाननर्त्तनवाद्यवादनादेस्तज्जिनभवनबिम्बस्थापनायात्रापूजादि द्रव्यस्तव इति ज्ञेयमिति योगः । तच्च न यथाकथञ्चिदित्याह-सूत्रत आगममाश्रित्य, तदपि विधिना 'जह रेहइ तह सम्म' इत्यादिना विधानेन द्रव्यस्तवो भावस्तवकारणभूतपूजा इति ज्ञेयम् । केन हेतुनेत्याहभावस्तवकारणत्वेन चरणप्रतिपत्तिरूपभावस्तवहेतुत्वाद्, द्रव्यशब्दो ह्यत्र कारणपर्यायः, इति गाथार्थः ।।७८।। चक्रे० : अयं च द्रव्यस्तवः सावद्यरूपत्वान्न योग्य इति प्रतिपादनायाहुः - देव० : इह भावस्तवस्तावत् सर्वसंवररूपः साधोरेवावसीयते तत्किं द्रव्यस्तवोऽपि तस्यैवेत्याह, यदि चैदंयुगीनसाध्वाभासान् द्रव्यस्तवेऽपि प्रवर्तमानानुपलभ्य कस्यचिदधिकारिशङ्का मा भूदिति द्रव्यस्तवस्य सावद्यत्वमाविर्भावयन् यतेरनधिकारितामाह - छण्हं जीवनिकायाणं संजमो जेण पावए भंगं । तो जइणो जगगुरुणो पुष्फाईयं न इच्छंति।।७९।। चक्रे० : षण्णां जीवनिकायानां संयमो येन प्राप्नोति भङ्गम, ततो यतेर्जगद्वरवस्तीर्थकराः पुष्पादिकं पुष्पाद्यर्चनमुपलक्षणत्वात् सर्वं द्रव्यस्तवं नेच्छन्ति नानुजानन्ति ।।७९ ।। देव० : षण्णां जीवनिकायानां संयमस्त्रिधा वधविरतिर्येन कारणेन प्राप्नोति लभते भङ्गं १. जत्तापूयाय सुत्तउ T.C जत्तापूआय सुत्तओ PK २. दव्वत्थउ T.C,P.K.Z. ३. रथनिर्गमाऽष्टाह्निकादि T.C ४. जीवनिकायाण T.C.z
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy