________________
३-मार्गतत्त्वम् गा-७७
* अभिधानराजेन्द्रकोषे 'मग्ग' शब्द-८ * भावत्थयदव्वत्थयरूवो सिवपंथसत्थवाहेण ।
सव्वण्णुणा पणीओ दुविहो मग्गो सिवपुरस्स ।। तत्र भावः शुभपरिणामः प्रधानं यत्र स्तवे स भावस्तवः । यद्वा भावेनाऽऽन्तरप्रीत्या तथाविधकर्मक्षयोपशमापेक्षया सर्वविरतिदेशविरतिप्रतिपत्तिस्वभावेन स्तवो भावस्तवः, द्रव्येण वा वित्तव्ययन जिनभवनबिम्बपूजाऽऽदिकरणरूपः स्तवो द्रव्यस्तवः, भावस्तवश्च द्रव्यस्तवश्च भावस्तवद्रव्यस्तवौ तयो रूपं स्वभावः स्तवरूपः शिवो मोक्षः पारमार्थिकनिरुपद्रवीस्थानं तस्य पन्था मार्गः शिवपथस्तस्य सार्थवाह इव सार्थवाहस्तेन मोक्षपथनायकेनेत्यर्थः। तस्याऽपि लोकरूढ्या नानात्वे विशेषयितुमाह-सर्वज्ञेन सर्वविदा प्रणीतः प्ररूपितः, तदन्यकथने हि विसंवाददर्शनात्, द्विविधो द्विप्रकारो मार्गः पन्थाः, कस्येत्याह-शिव एव पुरं शिवनगरं तस्याऽयमाशयः । यो हि प्रयोजननिष्पत्तौ भावमेवावलम्ब्य बहिर्द्रव्यव्यतिरेकेण प्रवर्तते, भगवती मरुदेवी स्वामिनी यतयश्च स्वभावेन भावशुद्धाध्यवसायेन सम्यग्विदिततत्त्वा अविदिततत्त्वो वा वैरस्वामिमाषाऽऽदिवत्सदनुष्ठाने प्रवर्त्तते स द्विविधोऽपि भावस्वरूपो मोक्षमार्ग इति ।।८।। चक्रे० : अथ भावस्तवद्रव्यस्तवयोः स्वयमेव स्वरूपमाहुः - देव० : अथ भावस्तवद्रव्यस्तवयोः स्वयमेव स्वरूपमाह -
जावज्जीवं आगमविहिणा चारित्तपालणं पढमो ।
नायज्जियदव्वेणं बीओ जिणभवणकरणाई ।।७७।। चक्रे० : एषाऽपि पाठसिद्धैव ।।७७।। देव० : यावज्जीवं यावत्प्राणधारणम्, न तु परपरिकल्पितद्वादशवर्षादिकालावधिनेत्यर्थः । आगमो गणधरादिरचिता शास्त्रपद्धतिस्तस्य विधिस्तेन सूत्रोक्तन्यायेनेत्यर्थः । अनेन स्वरुचिरचितानुष्ठानस्य निष्फलत्वमावेदयति । चारित्रं मूलोत्तरगुणरूपं तस्य पालनं रक्षणं सम्यग्विधानमिति यावत् । प्रथम आद्यो भावस्तवो भवतीति क्रिया । न्यायः स्वामिद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारस्तेनार्जितं यद् द्रव्यं तेन न्यायार्जितधनेन जिनभवनादिकरणमेव श्रेयस्करम्, न चान्यायार्जितेन धनेन जिनभवनादिकरणं मार्गानुयायीति सूचयति । एवं जिनभवनकरणादिर्द्वितीयो द्रव्यस्तवः । इह च यद्भावस्यैवालम्बनं भावस्तवः, द्रव्यत एव क्रियासु प्रवर्तनं द्रव्यस्तवश्च, तयो भिधानं तुच्छत्वादिति गाथार्थः ।।७७।।
१. करणाई A २. विठपितं तच्च तद् द्रव्यं च तेन अनेन चान्यायार्जितधनेन जिनभवनादिकरणमपि न मार्गानयायोति TA,B.C