________________
११०
चक्रे० : एवं कुमार्गं निराकृत्य सुमार्गमाहुः
देव० : इत्थमुत्पथमुन्मथ्य प्रस्तुतमार्गं प्ररूपयन्नाह
-
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
भावत्थयदव्वत्थयरूवो सिवपंथसत्थवाहेण ।
सव्वणा पणीओ दुविहो मग्गो सिवपुरस्स ।।७६ ।।
चक्रे० : पाठसिद्धा, केवलं भावेन स्तवः पूजा भावस्तवो यतिधर्मः, भगवदाज्ञापालनाच्चारित्रमपि भगवत एव पूजा, यदुक्तम्
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसङ्गता ।
गुरुभक्तिस्तपोज्ञानमष्टपुष्पी प्रचक्षते ।। [ अष्टकप्र ० २२] अष्टपुष्पी समाख्याता स्वर्गमोक्षप्रसाधिका ।
अहर्निशं तु साधूनां देवपूजा मताऽनया ।। [ अष्टकप्र० १७] द्रव्येण स्तवः पूजा द्रव्यस्तवः श्रावकधर्मः । । ७६।।
१. शुभं मार्गमित्याहु: PK २. स्वयं मोक्ष० PK
देव० : भावः परमार्थः शुभाध्यवसायो वा, तेन तद्रूपो वा स्तवः स्तोतव्यपूजनमाराधनमिति हृदयम्, भावस्तवो द्रव्येण द्रव्यरूपो वा, भावस्तवकारणभूतः स्तवः प्राग्वद् द्रव्यस्तवः । अनयोर्द्वन्द्वः, ततस्तौ रूपं स्वभावो यस्य स तथा, शिवस्य मोक्षस्य महापुरस्येव पन्था मार्गस्तस्मिन् सार्थवाह इव सार्थवाहस्तेन शिवपथसार्थवाहेन, तस्य स्वरूपमाह - सर्वज्ञेन सर्वविदा, तदन्यप्रणयने विसंवाददर्शनात्, प्रणीतः प्ररूपितो द्विविधो द्वौ विधौ भणितस्वरूपौ प्रकारौ यस्य स तथा, मृग्यते परमसुखाभिलाषिभिरन्विष्यते, मृज्यते वा कर्ममलापनयनाद्विशोध्यतेऽनेनात्मेति मार्ग: शिवपुरस्य मोक्षनगरस्य, अयमाशयः यत्प्रयोजननिष्पत्तौ भावस्यैवालम्बनं मरुदेवास्वामिनीवत् यच्च विदिततत्त्वस्याऽविदिततत्त्वस्य वा भावेन क्रियासु प्रवर्तनं वैरस्वामिमाषतुषादिवत्, स द्विविधोऽपि भावस्तवमार्गः । तथा यद् द्रव्यत एवान्तःकरणशून्यतया गोविन्दवाचकादिवत्सदनुष्ठानम्, यच्च द्रव्येण भरतादिवज्जिनभवनादिकरणम्, सद्विविधोऽपि द्रव्यस्तवमार्ग इति गाथार्थः ।। ७६ ।।
-