________________
३-मार्गतत्त्वम् गा-७५
१०९
यावत् पूर्णां चैत्यवन्दनां करोति इति गम्यते, तावत् तत्र चैत्येऽवस्थानमनुज्ञातम् । कारणेन स्नात्रादिना व्याख्यानादिना वा ‘परेण वा' त्ति परतोऽपि चैत्यवन्दनानन्तरमप्यवस्थातुं कल्पते ।
जइवि न आहाकम्मं भत्तिकयं तह वि वज्जयंतेहिं ।।
भत्ती खलु होइ कया इहरा आसायणा परमा ।। [सुमिणसित्तरी-४५] यद्यपि चैत्यं नाऽऽधाकर्म न साधूनां निमित्तं कृतं किं तर्हि ? भक्तिकृतमहद्भक्त्या निर्मितम्, तथापि तत्र निवासं वर्जयद्भिरर्हति भक्तिः खलु निश्चयेन कृता भवति । इतरथा तत्र निवासं कुर्वतामाशातना परमा, अतो न चैत्ये वस्तव्यमित्यर्थः ।।७५ ।
देव० : दुर्गन्धान्यस्नानशरीरमलसम्पर्कान्मलिनानि बाह्यरजःसङ्गाद्वस्त्राणि यस्य स तथा तस्य, खेलश्च निष्ठीवनम्, सिङ्घाणं च नासिकामलः, जल्लश्च देहमल उपलक्षणत्वादन्येऽपि तथाविधा वातनिसर्गादयो मनुष्यशरीरधर्मा अवरुद्ध्यन्ते तैर्युक्तो यः स तथा तस्य यतेर्जिनभवने न कल्पते स्थातुमिति गम्यम्, कुतः ? आशातनाहेतोराशातनालक्षणात्कारणाद्, उक्तं च -
दुब्भिग्गंधमलस्सावि तणुरप्पेस हाणिया । दुहा वाउवहो वावि तेण ठंति न चेइए ।। [प्रव.सारो० ४३८] जइवि न आहाकम्मं भत्तिकयं तह वि वज्जयंतेहिं । भत्ती खलु होइ कया इहरा आसायणा परमा ।। [सुमिणसित्तरी-४५] आसायणमिच्छत्तं आसायणवज्जणा य सम्मत्तं ।
आसायणा निमित्तं कुब्वइ दीहं च संसारं ।। [उपदेशमाला-४०९] न च वाच्यं भावार्हतां समीपे साधूनामवस्थानात् स्थापनार्हत्समीपावस्थानमपि न विरुद्ध्यते, यस्मादन्य एव भावार्हतां कल्पोऽन्य एव स्थापनार्हताम्, तथाहि - भावार्हतां सर्वसंवररूपदीक्षाङ्गीकारात् सर्वमेव तत्कृत्यं यतिभिरेव कार्यम्, न गृहस्थैः, विरतिविराधनासम्भवाद् मज्जनमाल्यारोपादि च सावधं तेषां न विधीयते, तदुद्देशेन पाकादि च न किञ्चित्क्रियते । स्थापनार्हतां तु गृहस्था एव सर्वमनुतिष्ठन्ति, स्नपनादि च सर्वं विधीयत इति न तेषां सर्वसाम्यबुद्ध्या चैत्येऽवस्थातव्यमिति गाथार्थः ।।७५ ।।