________________
११४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
समस्तप्रतिपत्तिमूलसर्वज्ञाऽऽज्ञायाः परिपालनात्पूजादिविषये चोचितदेशनादौ प्रवर्तनादनुमोदनाच्च दर्शनशुद्धिर्भवत्येवेति। प्रयोगश्चात्र पुष्पपूजादिव्यतिरेकेणापि सर्वसंवरवत्साधुसमाजानां दर्शनशुद्धिरुपजायते, भावस्तवहेतुकत्वात्पुष्पादिपूजायाः, घटोत्पत्तौ मृत्पिण्डवत् । न चास्य हेतो वस्तवोत्पत्तिहेतुत्वेऽपि दर्शनशुद्धावसिद्धतोद्भावनीयेति, भावस्तवस्य दर्शनशुद्धिव्यतिरेकेणात्यन्तासद्भावात् । अथ चेत्तं प्रयुज्यते तस्य हि भगवतः समस्तजगतीतलविख्यातकीर्तिसकलातिशयसंपन्नस्य त्रिभुवनोदरविवरभासुरसकलसुरासुरकिन्नरनरखेचरशेखरपरमपूजनीयस्य सर्वमपि यात्रास्नात्रविलेपाभरणगीतनृत्यपुष्पाद्यारोहणादिकं पूजाकर्म कृतमेव, तदविकलाज्ञाकरणतः सर्वसंवरारूढः साधुभिरपि सकलकलङ्कविकलकेवलज्ञानोत्पत्तिदर्शनात् प्रसन्नचन्द्रमहामुनिभरतेश्वरचक्रवर्तिवदिति गाथार्थः ।।१२।।
चक्रे० : तदियता द्रव्यस्तवाद्भावस्तवो गरीयानिति निश्चितम्, परमनयोः कियदन्तरमित्याहुः - देव० : तदियता द्रव्यस्तवाद्भावस्तवो गरीयानिति निश्चितम्, परमनयोः कियदन्तरमित्याह
मेरुस्स सरिसवस्स य जत्तियमित्तं तु अंतरं होई ।
भावत्थयदव्वत्थयाण अंतरं तत्तियं नेयं ।।८१।। चक्रे० : निगदसिद्धा ।।८१।। देव० : निगदसिद्धा, नवरं 'भावत्थयदव्वत्थयाण'त्ति बहुवचनं प्राकृतप्रभवमिति।।८१।।
* संबोधसप्ततिकायाम्-३६ * अथ गाथाद्वयेन द्रव्यपूजाभावपूजान्तरमाह -
मेरुस्स सरिसवस्स य जत्तियमित्तंपि अंतरं गरुयं ।
दव्वत्थयभावत्थय अंतरं तत्ति नेयं ।।३६।। मेरुगिरेः सर्षपस्य च यावन्मात्रमन्तरं गुरुकं गरिष्टं बहुतरं भवति, द्रव्यस्तवभावस्तवयोः द्रव्यस्तवो बाह्याकारेणैव विलेपनपुष्पोपहारादिकः, भावस्तवः शुभध्यानेन शक्रस्तवादिस्तुतिरूपः, ततो द्वन्द्वः, तथा तयोः, अर्थाद् द्रव्यपूजा भावपूजा च इत्येतयोस्तावन्मात्रमन्तरं ज्ञेयम्, भावपूजाया आधिक्यं सूचितमित्यर्थः । अत्र शाम्बपालकयोदृष्टान्तः, स चायम्-एकदा श्रीनेमिजिना द्वारिकायां समवसृताः, परिषनिर्गता, कृष्णेन बहुभक्त्या वन्दिताः, ततो गृह आगत्य स्वपुत्रयोः शाम्बपालकयोरग्र उक्तम् - भवतोर्द्वयोर्मध्ये यः प्रगे प्रथम स्वामिन नेमिनाथं वन्दति, तस्मै अहमिमं पट्टसत्कमश्वं ददामीति श्रुत्वा शाम्बपालको स्वगृहे गतौ, शाम्बेन प्रगे प्रथममुत्थाय चैत्यवन्दनापूर्वकं द्वादशावर्त्तवन्दनया स्वामिनो वन्दिताः, लोभाभिभूतेन पालकेन च द्रुतमुत्थाय समवसरणे गत्वा नेमिजिना भावं विनैव वन्दिताः, उक्तं च - कृष्णं प्रत्येवं वक्तव्यं पूर्वं वयं
१. दव्वत्थयाणंतरं P.K .