SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ३- मार्गतत्त्वम् गा- ७०, ७१ भङ्गोऽतिलङ्घनमित्यर्थः । इदमत्र हृदयम् - यद्यपि कश्चिद्विशिष्टकर्मक्षयोपशमात्सद्गुरुसम्प्रयोगाच्च समुल्लसितविवेको विशुद्धधर्मोत्साहवान् भवति, तथाप्यत्यन्तगुरुकर्मप्राग्भाराक्रान्ततया भवाभिनन्दिभिर्गौरवत्रितयप्रतिबद्धैः प्रवर्त्तितस्वाभिप्रेताचारैरागमप्रतिपन्थिभिस्तथाविधमूढजनैः सदाचारविमुखप्रभूतजनमेलनेन बलादप्यसौ कुमार्गे व्यवस्थाप्यत इति गाथार्थः ।।६९।। चक्रे० : कुमार्गोऽपि ज्ञात एव सुनिषेधः स्यादिति तद्दर्शनायाहुः, तथाहि देव० : प्रस्तावनापूर्वं कुमार्गमेवाह तथाहीति निपातसमुदायोऽयमुपप्रदर्शने । जिणभवणे अहिगारो जइणो गिहिणोवि गच्छपडिबद्धा । जहत देयं दाणं सुविहियपासे वयनिसेहो ।।७० ।। जिणभवणबिंबपूयाकरणं कारावणं जईणंपि । आगमपेरम्मुहेहिं मूढेहिं परूविओ मग्गो । । ७१ । । युग्मम् चक्रे० : अपिशब्दस्योभयत्राऽपि सम्बन्धादास्तां गृहिणः, सर्वसावद्यविरतस्य यतेरपि जिनभवने वसितुं जिनद्रव्यादिकं च विचिन्तयितुमधिकारः । तथा आस्तां यतयः, सावद्यारम्भरता गृहिणोऽपि गच्छप्रतिबद्धाः स्वस्वाचार्यवशवर्तिनः यथातथा कृतक्रीताऽऽहृतादिदोषवदपि पात्राऽपात्राविचारेण देयं दानं यतिवेषेभ्यः । तथा सुविहितपार्श्वे व्रतनिषेधः 'त्वं मद्गच्छीय' इति वदन्तो मूढास्तत्पार्श्वे व्रतमादातुं न ददतीत्यर्थो मुग्धजनविप्रतारणार्थं च पठन्ति - , एतां यतिव्यवस्थामपि मूढा गृहस्थेऽपि सम्बन्धयन्ति ।। ७० ।। द्वितीयगाथा च प्रतीतार्था । ।७१ ।। - जा जस्स ठिई जा जस्स संतई पुव्वपुरिसकयमेरा । सो तं अइक्कमंतो अणंतसंसारिओ होइ ।। [ सुमिणसित्तरी- ५१] १०५ देव० : जिनभवनेऽर्हन्मन्दिरे, उत्तरपदस्थस्यापिशब्दस्येह सम्बन्धाद्यतेरपि त्रिधा नियमितसकलसावद्यव्यापारस्य साधोरपि, न केवलं गृहिणोऽधिकारस्तन्निवासतत्कर्मद्रव्यादिचिन्तकत्वलक्षण आगमपराङ्मुखैर्मूढैः प्ररूपितो मार्ग इति द्वितीयगाथान्ते सम्बन्धः । एवं सर्वत्र, १. तत्र यादृशः कुमार्गस्तादृशमुपदर्शयितुं तथाहीत्यनेन प्रस्तावनामाह, तथाहीत्युपदर्शने निपातसमुदायः T,B,C २. परंमुहेहिं A, T, C, Z
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy