________________
३ - मार्गतत्त्वम् चक्रे : व्याख्यातं द्वितीयं धर्मतत्त्वम् । अथ मार्गतत्त्वस्याऽवसरोऽस्य च पूर्वेण सहाऽयं सम्बन्धः- धर्मः सन्मार्गानुसारेण स्यादतो मार्गं प्रतिपादयितुं शृङ्खलया तत्प्रस्तावनामाहुः -
देव० : व्याख्यातं द्वितीयं धर्मतत्त्वम् । अथ मार्गतत्त्वस्यावसरोऽस्य च पूर्वेण सहाऽयं सम्बन्धःपूर्वं गृहिधर्मो यतिधर्मश्च प्रत्यपादि, तत्र गृहिधर्मो द्रव्यस्तवमार्गानुपाती, यतिधर्मश्च भावस्तवमार्गानुपातीति प्रस्तावादुभयरूपमपि मार्गं प्रतिपिपादयिषुः शृङ्खलया तत्प्रस्तावनामाह -
दुलहा गुरुकम्माणं जीवाणं सुद्धधम्मबुद्धी वि ।
तीए सुगुरु तम्मि वि कुमग्गठिइसंकलाभंगो।।६९।। चक्रे० : दुर्लभा गुरुकर्माणां जीवानां शुद्धधर्मबुद्धिरपि, आस्तां कायेनानुष्ठानम् । अथ कथञ्चिद्भवितव्यतानियोगाज्जातायामपि तस्यां सुगुरुर्दुर्लभः, कुतोऽपि कर्मविवरात् तस्मिन्नपि प्राप्ते कुमार्गः शिवपथप्रतिपन्थी पन्थास्तस्य स्थितिर्व्यवस्था सैव सङ्कला तस्या भङ्गो दुर्लभ इति।।६९।।
देव० : दुर्लभा दुष्पापा, गुरुणि क्लिष्टाध्यवसायजनितत्वेन स्थित्यादिभिर्महान्ति कर्माणि दर्शनचारित्रमोहनीयादीनि येषां ते, तथा तेषां जीवानां प्राणिनाम्, कासौ ? शुद्धधर्मबुद्धिरपि, तत्र शुद्धः प्रबलमोहावृतप्राणिप्रवर्तितागमप्रतिकूलाऽसत्प्रवृत्तिकलङ्करहितः, स चासौ धर्मश्च, तत्र बुद्धिरभिलाषः, शुद्धधर्मबुद्धिरास्तां कायेनानुष्ठानमित्यपेरर्थः, अथ कथञ्चिद्भवितव्यतानियोगाज्जातायामपि तस्यां 'धम्मणू धम्मकत्ता य' इत्यादिवक्ष्यमाणलक्षणः सुगुरुर्दुर्लभ इति सर्वत्र सम्बन्धनीयम् । तदभावे तस्या अपि निष्फलत्वाद्, अथ कुतोऽपि कर्मविवरात्तस्मिन्नपि गुरावपि प्राप्त इत्यर्थः, कुत्सितः शिवपुरप्रतिपन्थित्वेन मार्गः पन्थास्तस्य स्थितिर्व्यवस्था, सैव संसारचारकनिर्गमनिरोधकत्वेन सङ्कला लोहमयबन्धनं कुमार्गस्थितिसङ्कला तस्या भङ्ग इव