________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
लोकप्रियोऽविरुद्धकारित्वात्, अक्रूरोऽनिष्ठुरः, भीरुः पापायशोभीतः, अशठः सरलाशयः, सुदाक्षिण्यः, लज्जालुः स हि प्राणप्रहाणेऽपि न प्रतिज्ञां त्यजति, दयालुः, मध्यस्थो रागद्वेषरहितः, सोमदृष्टिः शान्तदृक्, न परवृद्धिबद्धमत्सरः, गुणरागी गुणबहुमानी, सत्कथः परपरिवादात्मोत्कर्षरहितः स चासौ सुपक्षयुक्तश्च सन्मार्गपक्षपाती, कार्यं कुर्वन् सुदीर्घकालमर्थमनर्थं वा भाविनं पश्यतीत्येवंशीलः सुदीर्घदर्शी, विशेषज्ञः कृत्याऽकृत्यवेदी, वृद्धानुगो वृद्धानुगामी वृद्धबुद्धयुपजीवक इत्यर्थः, विनीतः, कृतज्ञो यः स्तोकोपकारकमपि बहु मन्यते, परहितार्थ - कारी च, तथा चैव लब्धलक्षः सर्वक्रियाकुशलः, इत्येकविंशत्या गुणैर्युक्तो धर्मरत्नयोग्यः स्यात् । इह चैकद्वित्र्यादिगुणाभावेऽपि धर्मरत्नयोग्यत्वं मन्तव्यम् ।।६६, ६७, ६८ ।।
९८
।। इति पूज्य श्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्य श्रीतिलकाचार्यनिर्वाहितायां सम्यक्त्ववृत्तौ समर्थितं द्वितीयं धर्मतत्त्वम् ।।
देव० : धर्मरत्नस्य योग्य उचितोऽक्षुद्राद्येकविंशतिगुणैर्युक्तो भवतीति समुदायार्थः । १-तत्र क्षुद्रस्तुच्छो न तथा, गम्भीराशय इत्यर्थः, तस्य ह्यलब्धमध्यत्वेन धर्मं प्रति क्षोभयितुमशक्यत्वाद्, २-रूपवानहीनपञ्चेन्द्रियः सुप्रमाणसर्वावयवसम्पन्नो वा तस्यापि धर्मप्रभावकत्वात्, तथा च धम्मोदएण रूवं करेंति रूवस्सिणोवि जइ धम्मं । भवओ य सरूवो पसंसिमो तेण रूवंति ।। [ ]
५
गब्भवओ ग्राह्यवाक्, ३- प्रकृतिसोमः स्वभावेनैव सुधांशुवदानन्दकारी । ४-लोकानां विशिष्टजनानां विनयादिगुणैः प्रियो वल्लभः, , को हि गुणवतः प्रति प्रीतो न भवति ? यस्तु न लोकप्रियः स न केवलमात्मानम्, स्वस्य धर्मानुष्ठानमपि परैर्दूषयन् परेषां बोधिलाभभ्रंशहेतुर्भवति -क्रूरो दूरभिसन्धिर्न तथाऽद्रोहक इत्यर्थः । ६ - भीरुर्जनापवादात्पापेभ्यो वा भयवान् पापानि च दृष्टादृष्टापायकारणानि कर्माणि, तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वद्यूतरमणादीनीहलोकेऽपि सकललोकप्रसिद्धविडम्बनास्थानानि, अदृष्टापायकारणानि मद्यमांसासेवनादीनि शांस्त्रनिरूपितनरकादियातनाफलानि । ७ शठो मायावी, न तथा, सरलाशय इत्यर्थोऽनुष्ठानं प्रत्यनालस्यवान् वा, ८ - सुष्ठु दाक्षिण्यमस्य सुदाक्षिण्योऽत्यन्तोपरोधशीलः, ९-लज्जा वैयात्याभावः, सा विद्यते यस्य स लज्जालुः, स हि प्राणप्रहाणेऽपि न प्रतिज्ञामुपजहाति, यदाह
१. प्रतिज्ञात० T, C