________________
२-धर्मतत्त्वम् गा-६६, ६७, ६८
लज्जां गुणौघजननीं जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ।।
१०-दया दुःखितजन्तुदुःखत्राणाभिलाषः, सा विद्यते यस्य स दयालुः, धर्मस्य दया मूलमिति ह्यामनन्ति सूरयः ११-मध्यस्थ आयव्ययतुलनेन समयोचितकारी, यदाह
-
-
सुबहुं पासत्थजणं नाऊणं जो न होइ मज्झत्थो ।
नय साहेइ सकज्जं कागं च करेइ अप्पाणं ।। [ उपदेशमाला - ५१०] यदिवा रागद्वेषयोरन्तरे तिष्ठतीति मध्यस्थः, रागद्वेषरहित इत्यर्थस्तस्यैव धर्मयोग्यत्वाद् रागादिमतो धर्मायोग्यत्वाद्, यदाह
९९
तो दुट्ठो मूढो पुव्विं कुग्गाहिओ य चत्तारि ।
एए धम्मस्सणरिहा अरिहो पुण होइ मज्झत्थो । । [ ]
-
१२-सोमे शान्ते परवृद्धिदर्शनेऽप्यदृष्टविकारे दृष्टी लोचने यस्य स तथा, न परवृद्धिबद्धमत्सर इत्यर्थः। १३-गुणेषु सौजन्यौचित्यादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु रागी, रागस्तु बहुमानप्रशंसासाहाह्यकरणादिनानुकूला प्रवृत्तिः, गुणानुरागिणो हि जीवा अवन्ध्यपुण्यबीजनिषेकेहामुत्र च गुणग्रामसम्पदमारोहन्ति । १४ - सती शोभना परपरिवादात्मोत्कर्षरहिता कथा वचनपद्धतिः सत्कथा, शोभनः प्रत्यक्षलोकाद्यविरुद्धः पक्षः प्रतिज्ञा सुपक्षः, ताभ्यां युक्तः समेतो गुरवस्तु सत्कथया सद्गुरूपदेशेन सुपक्षयुक्तो मिथ्यात्वमोहनीयकर्मक्षयोपशमतः सन्मार्गपक्षपातीति व्याचक्षते । १५ - सुतरामतिशयेन दीर्घकालभावित्वाद्दीर्घमर्थमनर्थं च पश्यति पर्यालोचयतीत्येवंशीलः सुदीर्घदर्शी । १६ - वस्त्ववस्तुनोः कृत्याकृत्ययोः स्वपरयोश्च विशेषमन्तरं जानातीति विशेषज्ञोऽविशेषज्ञो हि पुरुषः पशोर्नातिरिच्यते, अथवा विशेषमात्मन एव गुणदोषाधिरोहणलक्षणं जानातीति विशेषज्ञः । यदाह
प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।
किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ।। [ ]
१७-वृद्धाः शीलज्ञानाभ्यां गुरवस्ताननुगच्छति सेवाञ्जल्यासनदानाभ्युत्थानादिभिराराधयतीति वृद्धानुगः, ते ह्येवमनुगम्यमाना नियमात्कल्पतरव इव सदुपदेशादिभिः फलन्ति । १८ - विनीतः
१. मध्यस्थस्तस्यैव धर्मयोग्यत्वाद् A