SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ २-धर्मतत्त्वम् गा-६६, ६७, ६८ परस्परसमुच्चये, यथैव लोके प्रजास्वित्यनेन प्रकारेण शुद्धः सर्वज्ञप्रणीतत्वेनाश्रद्धेयताऽसद्भूतत्वपूर्वापरविरोधित्वादिकलङ्करहितः, स चासौ धर्मश्च, स एव सकलसमीहितार्थसाधकत्वाद्रत्नं चिन्तामणिस्तस्यार्थिनो दायकाश्च दृढतरमत्यर्थं स्तोका इति योगो ज्ञेया बोद्धव्याः । इदमत्र हृदयम्-यथा तृणेन्धनकणलवणाद्यसारद्रव्याणां ग्राहका दातारश्च प्रभूताः प्राप्यन्ते, तत्प्राप्तेरनायासलभ्यत्वात्, तथैव कुधर्मस्य ग्राहिणो दायिनश्च प्रचुरतमास्तथाविधभवाभिनन्दिनां भूयस्त्वादितरेषां च मुक्तिगमनयोग्यानामल्पीयस्त्वादिति गाथार्थः ।।६५ ।। * उपदेशपदे-९११ * एतदेव भावयति - रयणत्थिणोऽतिथोवा तद्दायारोवि जह उ लोयम्मि । इय सुद्धधम्मरयणत्थिदायगा दढयरं णेया ।। रत्नार्थिन: पद्मरागपुष्परागादिप्रस्तरखण्डाभिलाषिणोऽतिस्तोकाः पञ्चषादिरूपाः, तद्दातारोऽपि रत्नविक्रेतारोऽपि यथा तु यथैवातिस्तोका लोके घृततैलधनधान्यादिवाणिज्यकारिणि जने । इत्येवं शुद्धधर्मरत्नार्थिक्रायका निर्वाणावन्ध्यकारणसम्यग्दर्शनादिशुद्धधर्मरत्नार्थिनो भव्यजीवाः, तद्दायकाश्च गुरवः स्वभावत एव भवोद्विग्ना लब्धागमरहस्याः, अत एव मोक्षमार्गकरतयो दृढतरमत्यर्थं ज्ञेया अतिस्तोका इति ।।९११ ।। चक्रे० : अथ धर्मरत्नयोग्यं गाथात्रयेणाऽऽह - देव० : अथ धर्मरत्नयोग्यं निरूपयन् गाथात्रयमाह - धम्मरयणस्स जोगो अक्खुद्दो रूववं पगइसोमो । लोयप्पिओ अकूरो भीरू असढो सुदक्खिनो।।६६।। लज्जालुओ दयालू मज्झत्थो सोमदिट्ठि गुणरागी । सक्कह-सुपक्खजुत्तो सुदीहदंसी विसेसन्नू ।।६।। वुड्डाणुगो विणीओ कयन्त्रुओ परहियत्थकारी य । तह चेव लद्धलक्खो इगवीसगुणेहिं संजुत्तो ।।६८।। चक्रे० : अक्षुद्रो गम्भीरबुद्धिः, रूपवान् पञ्चेन्द्रियपटुः प्रकृतिसोम्यो निष्कषायः, १-जुग्गो PK २-लोगप्पियो PK,Z ३-सुदक्खिन्नू A.T.C ४. धर्मरत्नस्य योग्योऽक्षुद्रोऽतुच्छो गम्भीराशयः, रूपवान्, प्रकृतिसोमः स्वभावेनैव सुधांशुवदानन्दकारी, लोकप्रियो लोकानां वल्लभः, अक्रूरः, भीरुर्जनापवादादिभ्यः, M
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy