________________
णम - सम्यक्त्वप्रकरणम
'खंती'त्यादि, क्षान्तिः - क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सर्वथा क्रोधविवेक इत्यर्थः, मृदुरस्तब्धस्तस्य भावः कर्म वा मार्दवं नीचैर्वृत्तिरनुत्सेकश्च, ऋजुरवक्रमनोवाक्कायकर्मा तस्य भावः कर्म वा ऽऽर्जवं मनोवाक्कायविक्रियाविरहो मायारहितत्वमिति यावत्, मोचनं मुक्तिर्बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदो लोभपरित्याग इत्यर्थः, तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तञ्च द्वादशविधमनशनादि, संयम आश्रवविरतिलक्षणः, सत्यं मृषावादविरतिः, शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः, नास्य किञ्चनं द्रव्यमस्तीत्यकिञ्चनस्तस्य भाव आकिञ्चन्यमुपलक्षणं चैतत् तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमाकिञ्चन्यम्, नवब्रह्मचर्यगुप्तिसनाथ उपस्थसंयमो ब्रह्म, एष दशप्रकारो यतिधर्मः, अन्ये त्वेवं पठन्ति -
खंती मुत्ती अज्जव मद्दव तह लाघवे तवे चेव । संजम चियागऽकिञ्चण बोद्धव्वे बंभचेरे य ।। तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवपरिहारस्त्यागः सर्वसङ्गानां विमोचनं संयतेभ्यो वस्त्रादिदानं वा, शेषं प्राग्वत् ।।५५४ ।।
* अभिधानराजेन्द्रकोषे 'धम्म' शब्दे-४ * xxx मुक्तिपदोपादानेऽप्याकिञ्चनस्य लब्धत्वादाकिञ्चनपदोपादानं विशेषद्योतनार्थम् । विशेषश्चात्र संयमोपष्टम्भनिमित्तं किञ्चित्प्राशुकैषणीयमुपकरणं धारयन्नपि मुक्ततोपेत एव भवति । ननु पुनरतिजडताऽवष्टब्धमना दिगम्बरपरिकल्पनया मुक्तिमान्, तस्या असंयमाऽऽदिदोषदुष्टत्वेनाभिमतत्वात् तर्हि संयमोपकारायैव सकिञ्चनताऽपि भविष्यति मुक्तता, नेत्याह-सर्वथैव संयमोपघातकत्वेनातिदुष्टत्वादिति। चशब्दः समुच्चयार्थः । ब्रह्म च ब्रह्मचर्यं, स्त्रीसेवापरिहार इति गाथार्थः ।। xxx
चक्रे० : अथ धर्मदायकग्राहकयोरल्पत्वमाहुः - देव० : गृहियतिभेदाद् द्वेधाप्युक्तो धर्मोऽधुना तद्दायकग्राहकयोरल्पत्वमाह -
रयणत्थिणो वि थोवा तद्दायारो वि जह उ लोगंमि ।
इय सुद्धधम्मरयणत्थिदायगा दढयरं नेया ।।६५।। चक्रे० : अक्षरार्थः सुगमः, नवरं 'दढयरं' ति दृढतरमित्यर्थम् । तत्त्वार्थस्त्वयम् - यथा तृणेन्धनकणलवणाद्यसारद्रव्याणां ग्राहका दातारश्च प्रभूताः प्राप्यन्ते तथैव कुधर्मग्राहिण: प्रचुरतमास्तथाविधभवाभिनन्दिनां भूयस्त्वाद्धर्मरत्नग्राहिणस्त्वल्प इति ।।६५ ।।
देव० : रत्नानि वैडूर्यादीनि, तान्यर्थयन्ते ते रत्नार्थिनः स्तोका अल्पास्तत्प्रयोजनमूल्यपुण्यवतामल्पत्वात्तेषां रत्नानां दातारो विक्रेतारः स्तोका इति योगः । विनिमयाभावाद अपिशब्दौ १. य जह व लोगम्मि A