________________
२-धर्मतत्त्वम् गा-६४
ब्रह्म ब्रह्मचर्यं नवब्रह्मगुप्तिसनाथब्रह्मचर्यपरिपालनमित्यर्थः । चकाराः समुच्चयार्थाः । यतेरनगारस्य धर्मो यतिधर्मो बोद्धव्यः । इह च संयमादिभिः पदैर्महाव्रतप्रतिपादनेन सकलसावधव्यापारप्रत्याख्यानमुक्तं भवति, ततः सामायिकपुरस्सरमहाव्रतप्रतिपादनेन सम्पूर्णो यतिधर्मः प्रोक्तो भवति, तपःप्रतिपादनात्तु पूजिताशुभकर्मनिर्जरणाच्छुद्धिरभिहितेति कृतं प्रसङ्गेनेति गाथार्थः ।।६४ ।।
* आवश्यकनियुक्तौ 'प्रतिक्रमण' अध्ययनस्य संग्रहणिगाथायाम्-१ * श्रमणः प्राग्निरूपितशब्दार्थस्तस्य धर्मः क्षान्त्यादिलक्षणस्तस्मिन् दशविधे दशप्रकारे श्रमणधर्म सति तद्विषये वा प्रतिषिद्धकरणादिना यो मयाऽतिचारः कृत इति भावना। दशविधधर्मस्वरूपप्रतिपादनायाह सङ्ग्रहणिकारः -
खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धब्वे ।
सचं सोयं आकिंचणं च बंभं च जइधम्मो ।। क्षान्तिः श्रमणधर्मः क्रोधविवेक इत्यर्थः, चशब्दस्य व्यवहितः सम्बन्धः, मृदोर्भावो मार्दवं मानपरित्यागेन वर्तनमित्यर्थः, तथा ऋजुभाव आर्जवं मायापरित्यागः, मोचनं मुक्तिः लोभपरित्याग इति भावना, तपो द्वादशविधमनशनादि, संयमश्चाश्रवविरतिलक्षणो बोद्धव्यो विज्ञेयः श्रमणधर्मतया, सत्यं प्रतीतम्, शौचं संयमं प्रति निरुपलेपता, आकिञ्चन्यं च कनकादिरहिततेत्यर्थः, ब्रह्मचर्यं च, एष यतिधर्मः, अयं गाथाक्षरार्थः ।
अन्ये त्वेवं वदन्ति - खंती मुत्ती अज्जव मद्दव तह लाघवे तवे चेव । संयम चियागऽकिंचण बोद्धव्वे बंभचेरे य ।।
तत्र लाघवम्-अप्रतिबद्धता, त्यागः संयतेभ्यो वस्त्रादिदानम्, शेषं प्राग्वत्, गुप्त्यादीनां चाऽऽद्यदण्डकोक्तानामपीहोपन्यासोऽन्यविशेषाभिधानाददुष्ट इति ।।१।।
* पञ्चाशके-११/१९ * xxx संयमः पृथिव्यादिसंरक्षणलक्षणः xxx
* प्रवचनसारोद्धारे-५५४ * अथ श्रमणधर्ममाह
खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धब्वे । सचं सोयं आकिंचणं च बंभं च जइधम्मो ।।