________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
अत्र वृद्धसम्प्रदायः १- हत्थच्छुरणं खुरणं खुरडं, २ - कोयवओवूरठिगा, ३-पावारोसलोमपडओ, ४ - नवउजीणं, ५ - दढगालीधोलपुत्ती सदसवत्थत्ति भाणियं होइ । तणपणगं पुण भणियं जिणेहिं कम्मट्ठगंठिदहणेहिं । साली वीही कोद्दव रालग रण्णे तणाइं च ।।
९४
अय एल गावि महिसी मिगाणमजिणं च पंचमं होइ ।
तलिया खल्लग कोसग कित्ती य बितिए य ।। [ प्रव. सारो० ६७५, ६७६] ग्रहणेऽपि संयम एव यदाह
दुप्पडिलेहियपणगं अद्धाणाई विवित्तह्नित्ति ।
घिप्पइ पुत्थयपणयं कालियनिज्जुत्तिकोसट्ठा।। [ ]
अपवादतस्तु पुस्तकपञ्चकादि १० । प्रेक्षासंयमः प्रत्युपेक्ष्य प्रमृज्य च स्थाननिषदनादिविधानम् ११, उपेक्षासंयमस्तु द्विधा व्यापारे अव्यापारे च तत्र व्यापारोपेक्षासंयमो यत्सांभोगिकसाधून् सीदत इतरांश्च प्रावचनिककार्येषु प्रेरयति, अव्यापारोपेक्षासंयमस्तु यत्सावद्यकर्मसु सीदन्तं गृहस्थमुपेक्षते १२, प्रमार्जनासंयमः पुनर्यत्सागारिकसमक्षं पथि गच्छन् वसती वा प्रविशन् पादौ न प्रमार्ष्टि तदभावे च प्रमार्ष्टि १३, परिष्ठापनासंयमस्तु जीवसंसक्ताधिकानेषणीयक्षेत्रकालातिक्रान्तभक्तपानकादेरुच्चारप्रश्रवणनिष्ठीवनादेश्च विधिना त्यागः १४, मनःसंयमः पुनस्तस्यैवाकुशलस्य निरोधः, कुशलस्योदीरणम् १५, एवं वाक्संयमोऽपि १६, कायसंयमस्तु सति कार्य उपयोगतो गमनागमनादिविधानं तदभावे संवृत्तकरचरणाद्यवयवस्यावस्थानमिति १७ ।
अथ प्रकृतमभिधीयते-इह च केषुचित्पदेषु प्राकृतवशाद् विभक्तिलोपो द्रष्टव्यः । यदिवा संयमशब्दान्तः समाहारद्वन्द्वः, मुक्तिशब्दस्य च दीर्घत्वं प्राकृतप्रभवं बोधव्यमित्यग्रेऽपि सम्भत्स्यते । सत्यं सम्यग्वादः, शौचं द्रव्यतो निर्लेपता, भावतोऽनवद्यसमाचारः, स चेह प्रस्तावादस्तेयलक्षणः । किञ्चनं द्रव्यमुच्यते, नास्य किञ्चनमस्तीत्यकिञ्चनस्तस्य भाव आकिञ्चन्यं निर्ग्रन्थतेत्यर्थः । अथ मुक्तिशब्देनैव गतार्थमिदमिति चेन्न, संयमार्थं निर्लोभस्य वस्त्रपात्रकम्बलादि धारयतोऽपि आकिञ्चन्यप्रतिपादनार्थत्वादस्य, यदाह
जंपि वत्थं व पायं वा कंबलं पायपुंछणं ।
तंपि संजमलज्जट्ठा धारिंति परिहरंति य (परिभुञ्जते ।।
न सो परिग्गहो वृत्तो नायपुत्तेण ताइणा । मुच्छापरिग्गहो तो ई वुत्तं महेसिणा ।। [ दशवै० ६-२०, २१]