________________
२-धर्मतत्त्वम् गा-६४
तथैवेति समुच्चये, स्वाध्यायः पञ्चधा वाचनादिर्ध्यानमार्त्तादि चतुर्धा, तत्राद्ययोर्भवहेतुत्वादितरयोश्च मुक्तिहेतुत्वाद्धर्म्यशुक्ले एव तपः । उत्सर्गस्त्यागः, स च द्रव्यतो गणशरीरोपध्याहार
भेदाच्चतुर्धा, भावतस्तु क्रोधादित्यागरूपत्वादनेकधा, अपि चेति समुच्चये, कर्मनिर्जरणंप्रत्यन्तरङ्गत्वादभ्यन्तरकं तपो भवतीति । तथा संयमः सप्तदशभेदस्तथा च -
पुढविदगअगणिमारुय वणस्सइबितिचउपणिंदिअजीवे ।
पेहोपेहपमज्जण परिठ्ठवणमणोवई काए ।। [दशवै.नि. ४६] अस्या अर्थः - पृथिव्यादिपञ्चेन्द्रियान्तानां जीवानां मनोवाक्कायैः करणकारणानुमतितः संघट्टनपरितापनोपद्रवणपरिहाररूपो नवविधः संयमो भवति । अजीवसंयमस्तु पुस्तकदूष्यतृणचर्मपञ्चकविकटहिरण्यादीनामग्रहणरूपस्तत्र -
गंडी कच्छ वि मुट्ठी संपूडफलए तहा छिवाडी य । एयं पुत्थयपणयं वक्खाणमिणं भवे तस्स ।। बाहल्लपुहुत्तेहिं गंडीपुत्थो उ तुल्लगो दीहो । कत्थ वि अंते तणुओ मज्झे पिहुलो मुणेयव्वो ।। चउरंगुलदीहो वा वट्टागिति मुट्ठिपुत्थगो अहवा । चउरंगुलदीहो च्चिय चउरंसो होइ विन्नेओ ।। संपुडओ दुगमाई फलगा वोच्छं छिवाडिमित्ताहे । तणुपत्तूसियरूवो होइ छिवाडी बुहा बिंति ।। दीहो वा हस्सो वा जो पिलो होइ अप्पबाहल्लो । तं मुणिय समयसारा छिवाडिपुत्थं भणंतीह ।। [प्रव.सारो० ६६४-६६८] अप्पडिलेहियदूसे तूली उवधाणगं च नायव्वं । गंडुवधाणाऽऽलिंगिणि मसूरए चेव पुत्तमए ।।। पल्हवि कोयवि पावार णवतए तह य दाढिगाली य । दुप्पडिलेहियदूसे एयं बीयं भवे पणगं ।। पल्हवि हत्थुत्थरणं कोयवओ रूतपूरिओ पडओ ।
दढगालि धोय पुत्ती सेस प्रसिद्धा भवे भेया ।। [प्रव.सारो० ६७७, ७८, ७९] १. 'पुस्तकपञ्चकाप्रत्युपेक्ष्यदुष्प्रत्युपेक्ष्य' इति पाठो T,B,C प्रतेषु अस्ति 'पुस्तकाप्रत्युपेक्ष्य दुष्प्रत्युपेक्ष्य' इति पाठो A प्रते आस्ति ।