________________
९२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
ततश्चानेन सामायिकमुक्तं भवति, रागद्वेषाभावरूपत्वात्तस्य । यदाह जो समोसव्वभूएस तसेसु थावरेसु य ।
तस्स सामाइयं होइ इई केवलिभासियं ।। [ संबोधप्र० १२२१] तपो द्वादशविधमनशनादि, तदाभ्यां गाथाभ्यामवसेयम्
अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ।।
पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ ।
झाणं उसग्गोऽवि य अब्भिंतरओ तवो होइ ।। [दशवै.नि. ४७, ४८] विनेयानुग्रहायानयोः किञ्चिद् व्याख्यानमुच्यते .
-
रुपष्टम्भः,
—
तत्रानशनमाहारत्यागस्तच्चेत्वरं यावत्कथिकं च तत्रेत्वरं चतुर्थादि षण्मासान्तम् । यावत्कथिकं तु भक्तपरिज्ञेङ्गिनीपादपोपगमनभेदात् त्रिधा, तत्राद्यं सप्रतिकर्मत्रिविधचतुर्विधाहारत्यागनिष्पन्नम्, द्वितीयं त्वप्रतिकर्मचतुर्विधाहारत्यागनिष्पन्नमिङ्गितदेशे चङ्क्रमणाद्यपरिहारवत्, तृतीयमपि तथैव, नवरं सर्वथा परिस्पन्दवर्जितम् । ऊनोदरिका इह द्वात्रिंशत्कावलिकमाहारप्रमाणम्, तत एकेनापि कवलेन न्यूनमूनोदरता, तथाहि
बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ ।
पुरिसस महिलियाए अट्ठावीसं भवे कवला ।। [ प्रव. सारो० ८६६ ] अप्पाहार-अवड्ढा-दुभाग- पत्ता तहेव किंचूणा ।
अट्ठ-दुवालस-स - सोलस-चउवीस-तहेक्कतीसा य ।। [ 1
वृत्तिसङ्क्षेपणं गृहभिक्षादिपरिमाणकरणम्, रसपरित्यागो रसानां दुग्धदध्यादीनां सर्वेषामन्यतरेषां वा त्यागः, , कायक्लेशः केशोत्पाटनवीरासनादिविधानशीतादिसहनादिः, संलीनता विश्रृङ्खल मनोवाक्कायसंवृत्तिः, प्रायो बाह्यस्यैव शरीरस्य तापनाल्लौकिकैरपि तपस्तया प्रतीयमानत्वाच्च बाह्यतपो भवतीति तथा प्रायश्चित्तमालोचनादि दशविधम्, विनयकर्म विनयनहेतुर्गुर्वादिष्वभ्युत्थानाञ्जल्यासनदानादिरूपः प्रतिपत्तिविशेषः, वैयावृत्त्यमाचार्यादीनां दशानां भक्तादिभि
यदाह
आयरिय उवज्झाए थेर तवस्सी गिलाण सेहाणं । साहम्मिय कुल गण - संघ संगयं तमिह कायव्वं ॥ [
]