________________
२-धर्मतत्त्वम् गा-६४
* हितोपदेशप्रकरणे-४१३ * तान्येव नामतः प्राह -
पाणिवह-मुसावाए-अदत्त-मेहुण-परिग्गहे चेव ।
दिसि-भोग-दंड-समइय-देसे तह पोसह-विभागे ।। साध्याहारत्वादमीषां पादानां प्राणिवध-मृषावाद-अदत्त-मैथुनाख्यपदचतुष्टये विरतिशब्दोऽध्याहार्यः । तथा परिग्रहदिशिभोगाख्ये पदत्रये परिमाणशब्दः । तथा भीमो भीमसेन इति न्यायादेकदेशे समुदायोपचाराद् दण्डशब्देनानर्थदण्डव्रतमभिधीयते । एवं 'समइय'शब्देन सामायिकम् । देशशब्देन देशावकासिकम् । पौषधं तु स्वरूपत एव । विभागपदेन चातिथिसंविभागव्रतमित्येतानि द्वादशापि गृहिव्रतानि ।।४१३।।
चक्रे० : अथ यतिधर्ममाहुः - देव० : अथ यतिधर्ममाह -
खंती य मद्दवज्जव मुत्ती तव संजमे य बोधव्वे ।
सचं सोयं आकिंचणं च बंभं च जइधम्मो।।६४।। चक्रे० : क्षान्तिः क्षमा, मार्दवमस्तब्धत्वम्, आर्जवमकौटिल्यम्, मुक्तिनिर्लोभता, तपोऽनशनन्यूनोदरतादिद्वादशविधम्, संयमः सप्तदशभेदस्तथा च -
पुढविदगअगणिमारुय वणस्सइ बितिचउपणिंदिअजीवे ।
पेहुप्पेहपमज्जणपरिठवणमणोवईकाए ।। [दशवै. नि. ४६] सत्यं सम्यग्भाषणम्, शौचमदत्तत्यागः, आकिञ्चन्यं निष्परिग्रहिता, ब्रह्म च ब्रह्मचर्यम्, यतेरयं धर्मो बोद्धव्यः । स चायं धर्मो द्विविधोऽपि दानशीलतपोभावभेदाञ्चतुर्द्धा।।६४ । ।
देव० : क्षान्तिः क्रोधनिग्रहश्चकारोत्तरपदसमुच्चयार्थः, 'खंतिए' त्ति पाठे तु सहार्थे तृतीया, मार्दवमस्तब्धत्वमार्जवमकौटिल्यम्, मुक्तिनिर्लोभता, तदियता रागद्वेषाभाव उक्तः । यदवाचि वाचकेन -
माया लोभकषायश्चेत्येतद्रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनद्वेष इति समास निर्दिष्टः ।। [प्रशमरति-३२]