________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
वा' इति, स्मृतिमूलं च मोक्षानुष्ठानम् । ५-अनवस्थितकरणं यत्करणान्तरमेव त्यजति यथाकथञ्चिद्वाऽनादृतः करोति ।
१०-देशावकाशिके पुनरानयनप्रयोगः प्रेष्यप्रयोगः शब्दानुपातो रूपानुपातो बहिः पुद्गलप्रक्षेपश्चेति । १-तत्र स्वयं गमने व्रतभङ्गः स्यादिति धिया परेण नियमितक्षेत्राद् बहिःस्थस्य पदार्थस्यात्मसमीपे प्रापणमानयनप्रयोगः । २-स्वयं गमने व्रतभङ्ग इत्याशयाद्विवक्षितक्षेत्राद्वहिः प्रयोजनाय प्रेष्यस्य व्यापारणं प्रेष्यप्रयोगः । देशावकाशिकव्रतं हि मा भूद् गमनादिभिः प्राणिघात इत्याशयेन गृह्यते, स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुण इति । ३-४ नियमविषयक्षेत्राद् बहिःस्थितं कञ्चननरं दृष्ट्वा व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा स्वकीयकाशितादिशब्दश्रावणनिजरूपदर्शनव्याजेन तमाकारयति तदा शब्दानुपातरूपानुपातौ । ५-व्रतविषयक्षेत्राहिर्विवक्षितजनाकारणार्थं पुद्गलस्य लोष्ट्वादेः क्षेपणं बहिष्पुद्गलक्षेपः। इहाद्यौ द्वावव्युत्पन्नस्य, अन्त्यत्रयं तु मायाविनः । इह च दिग्व्रतसक्षेपणवद् व्रतान्तराणामपि सक्षेपकं देशावकाशिकं किन्तु प्राणातिपातादिसक्षेपेषु वधबन्धादय एवातिचाराः । दिग्व्रतसंक्षेपे तु संक्षिप्तत्वात् क्षेत्रस्यानयनप्रयोगादय इति ।
११-पौषधव्रते १-पुनरप्रत्युपेक्ष्याप्रमृज्य च स्थण्डिलभुवमुच्चार-प्रश्रवण-खेल-सिङ्घाणकादीनामुत्सर्गः। २-अप्रत्युपेक्ष्याप्रमृज्य पीठफलकादीनामादाननिक्षेपौ । ३-अप्रत्युपेक्ष्याप्रमृज्य च संस्तारकन्यासः । ४-५ स्मृत्यकरणमनवस्थितकरणञ्चेति । स्पष्टाश्चेते, नवरं प्रत्युपेक्षणं चक्षुषा निरीक्षणम्, प्रमार्जनं रजोहरणवस्त्रप्रान्तादिना विशुद्धिकरणम् । इह चाप्रत्युपेक्षणेन दुष्प्रत्युपेक्षणमप्रमार्जनेन दुष्प्रमार्जनं च संगृह्यते । नञः कुत्सार्थस्यापि दर्शनादिति ।।
१२-अतिथिसंविभागवते तु सचित्तनिक्षेपः सचित्तपिधानं कालातिक्रमः परव्यपदेशो मत्सरश्च। १-सचित्ते पृथिव्यादावदित्सया साधुदेयस्य वस्तुनो निक्षेपः स्थापनम् । २-सचितेन कुष्माण्डफलादिना पिधानं स्थगनम् । ३-कालस्य साधूचितभिक्षासमयस्यातिक्रमोऽनागतमेव भिक्षाकालं लवयित्वा वा भोजनकरणमित्यर्थः। ४-परस्यान्यस्य सम्बन्धीदं गुडखण्डादि, न मदीयमिति व्यपदेशो व्याजः। ५-मत्सरोऽसहनं साधुभिर्याचितस्य कोपनमथवा स कश्चिद्रङ्कमात्रोऽपि ददाति, अहं तु किं ततोऽपि हीन इत्यहङ्कारो वा मत्सर इति । अनाभोगातिक्रमादिभिश्चैतेऽतिचारा अन्यथा तु भङ्गाः । इत्युक्तो लेशतः सातिचारव्रतविषयो विस्तरस्त्वावश्यकादिभ्योऽवसेय इति गाथार्थः ।।६३ ।।