________________
२-धर्मतत्त्वम् गा-६३
नवनीतवसाक्षौद्र-मद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः ।। विषास्त्रहलयन्त्रायो-हरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ।। तिलेक्षुसर्षपैरण्ड जलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ।। नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ।। सारिकाशुकमार्जार-श्वकुक्कुटकलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ।। व्यसनात्पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा । सरःशोषः सरःसिन्धु-ह्रदादेरम्बुसंप्लवः ।।
[योगशास्त्रप्र० ३/९९-११३] दिग्मानं चेदम्, एवंजातीयानां सावद्यकर्मणां न तु परिगणनमिति एतानि चानाभोगादिना अतिचारा, आकुट्या क्रियमाणानि तु भङ्गा एव ।।
इह चैवं विंशतिसङ्ख्यातिचाराभिधानं व्रतान्तरेष्वपि पञ्चातिचारसङ्ख्यया तज्जातीयानां विधानां सङ्ग्रह इति ज्ञापनार्थम् । तेन स्मृत्यन्तर्धानादयो यथासम्भवं सर्वव्रतेषु द्रष्टव्याः ।
८-अनर्थदण्डविरतौ तु कन्दर्पः कौत्कुच्यं मौखर्यं संयुक्ताधिकरणता भोगोपभोगाधिक्यं चेति। १-कन्दर्पः कामः तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः, इह सामाचारी-श्रावकेण स्वस्य परस्य वा मोहोद्दीपकं न वाच्यम् । २-कौत्कुच्यं भू-नयनोष्ठ-नासा-कर-चरण-मुखविकारैरनेकप्रकारा भण्डादिविडम्बनक्रिया, एतौ द्वावपि प्रमादाचरितस्यातिचारौ । ३-मुखरोऽनालोचितभाषी वाचाटस्तस्य कर्म मौखर्यमसभ्यासम्बद्धबहुप्रलापित्वमयं च पापोपदेशस्यातिचारः । ४-अधिकरणं हलोदूखलशकटादि संयुक्तं फालादिसंयोगेन प्रगुणीकृतं तद्भावस्तत्ता श्रावकेण हि संयुक्ताधिकरणं न धारणीयम्, तथा सति हि यः कश्चिद्याचते, अन्यथा तु सुखेन परः प्रतिषेधितुं शक्यते, हिंस्रप्रदानस्य चासावतिचारः । ५-भोगोपभोगाधिक्यं स्नानीयतैलामलक-भोजन-चन्दनकुङ्कमकस्तूरिकावस्त्राऽऽभरणादीनामतिरिक्तानामारम्भः, प्रमादचरितस्यायमतिचारः । सर्वेऽप्यमी अनाभोगादिनैव क्रियमाणा अतिचारा, आकुट्या तु भङ्गा एव । इति गुणव्रतातिचाराः । __ अथ शिक्षाव्रतेषु, ९-तत्र तावत्सामायिके मनोवाक्कायदुष्प्रणिधानानि ३ स्मृत्यकरणमनवस्थितकरणं चेति । १-३ तत्र मनःप्रभृतीनां दुष्प्रणिधानमनाभोगादिना सावधचिन्तादिषु प्रवर्तनम् । ४-स्मृतेरकरणं प्रबलप्रमादान्नैवं स्मरति यदुत - अस्यां वेलायां सामायिकं कर्तव्यं कृतं न कृतं
१. उपेत्य T,B.C