________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
केनचित्कृतम्, गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत पञ्चाशत्, तस्य चैवं पञ्चाशतमतिक्रामतोऽतिचारः, शतमतिक्रामतो भङ्गः, , सापेक्षत्वान्निरपेक्षत्वाच्चेति ।
८८
७- भोगोपभोगव्रते, तु भोजनतस्तावदमी पञ्च । तद्यथा - सचित्ताहारः सचित्तप्रतिबद्धाहारोऽपक्वौषधिभक्षणं दुष्पक्वौषधिभक्षणं तुच्छौषधिभक्षणं चेति । एते च प्रत्याख्यातसचित्ताहारस्यैव द्रष्टव्याः । १-तत्र सचित्ताहारः कन्दमूलफलादिरयं चानाभोगातिक्रमादिना ज्ञेयः । २- सचित्तेन वृक्षादिना प्रतिबद्धो गोंदादिः पक्वफलादिर्वा सचित्तान्तर्बीजस्तस्याहारोऽनाभोगादिना, अथवा बीजं त्यक्ष्यामि कटाहं तु भक्षयिष्यामि, तस्याचेतनत्वादिति बुद्ध्या पक्वं खर्जूरादिफलं मुखे प्रक्षिपतोऽतिचारः । ३ अपक्वाया औषधेः कणिक्कादिरूपायाः सम्भवत्सचित्तावयवाया अपि पिष्टत्वादचेतनेयमिति सम्भावनया भक्षणम् । ४- दुष्पक्वाया वह्निना पक्वापक्वत्वेन सम्भवत्सचित्तावयवाया औषधेः पृथुकादेर्भक्षणम् । ५-तुच्छास्तथाविधतृप्त्यजनकत्वेनासारा औषधयः कोमलमुद्गादि फलीरूपास्तासां भक्षणम् । आह - यद्येताः सचित्तास्तर्हि प्रथमातिचार एव अथाचित्तास्तदा किं विरुद्धम् ? सत्यम्, तद्भक्षणे तथाविधतृप्त्यजनकत्वेन निरर्थकं जीवघातस्यैवावशिष्यमाणत्वादचेतनीकृत्याप्यासां भक्षणमर्थतः प्रतिषिद्धम्, ततः प्रतिषिद्धाचरणान्नियमाबाधनाच्चातिचारः, एवं रात्रिभोजनमद्यादिनिवृत्तिष्वप्यनाभोगातिक्रमादिभिरतिचारता भावनीया, एते पञ्च भोजनतः ।
कर्मतस्त्वमी कर्मादानसञ्ज्ञाः पञ्चदश श्लोकैः कथ्यन्ते तद्यथा -
अङ्गार-वन-शकट-भाटक- स्फोटजीविका । दन्त- लाक्षा-रस- केश - विषवाणिज्यकानि च ।। यन्त्रपीडा-निर्लाञ्छनमसतीपोषणं तथा । दवदानं सरःशोष इति पञ्चदश त्यजेत् ।। तत्रअङ्गारभ्राष्ट्रकरणं कुम्भायः स्वर्णकारिता । ठठारत्वेष्टिकापाकाविति ह्यङ्गारजीविका ।। छिन्नाछिन्नवनपत्रप्रसूनफलविक्रयः । कणानां दलनात्पेषाद् वृत्तिश्च वनजीविका ।। शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ।। शकटोक्षलुलायोष्ट्र-खराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तिर्भवेद् भाटकजीविका ।। सरःकूपादिखनन-शिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ।। दन्तकेशनखास्थित्वग्-रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ।। लाक्षामनःशिलानीली-धातकीटङ्कणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ।।