________________
२-धर्मतत्त्वम् गा-६३
स्याहर्निशं तदेकाग्रता सुरतावसरे च तीव्ररागतया विविधाः कुचेष्टाः, श्रावको हि वेदोदयोपशान्त्यर्थमात्रं मैथुनं सेवते । मैथुनमात्रादेव चोपशान्तौ सम्भवत्यां तीव्रकामाभिलाषोऽर्थतः प्रतिषिद्धोऽतः प्रतिषिद्धाचरणाद्भङ्गः, नियमानाबाधाच्चाभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः ।
८७
स्त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वाद्, अनङ्गक्रीडादयस्तु त्रयः स्युः पञ्च वा, कथम् ? तत्राद्योऽतिक्रमादिना परपुरुषमभिसरन्त्याः । द्वितीयः सपत्नीवारके स्वपतिं परिभुञ्जानायाः, शेषाः प्राग्वदिति ।
५-परिग्रहव्रते तु योजनात् क्षेत्रवास्तुप्रमाणातिक्रमः प्रदानाद्रूप्यसुवर्णप्रमाणातिक्रमः, बन्धनाद्धनधान्यप्रमाणातिक्रमः, कारणाद् द्विपदचतुष्पदप्रमाणातिक्रमः, भावात् कुप्यप्रमाणातिक्रमश्चेति I १-तत्र कृतक्षेत्रवास्तुप्रमाणस्याधिकतराभिलाषे व्रतभङ्गभयात् प्राक्तनक्षेत्रादेरासन्नमपरं गृहीत्वा तस्यैकत्वकरणाय सीमावृत्तिवरण्डाद्यपनयनेन तत्तत्र योजयतः प्रथमोऽतिचारः। २-चतुर्मासाद्यवधिकृतस्वर्णरूप्यप्रमाणस्य कुतश्चिदधिकसम्पत्तौ 'पूर्णेऽवधौ पुनर्ग्रहीष्यामि इति बुद्ध्या व्रतसापेक्षत्वादन्यस्मै ददतो द्वितीयः । ३ - प्रतिपन्नधनधान्यप्रमाणस्य तदधिकल्प्रभसम्भवे व्रतभङ्गभयाद् 'उद्गृहगतधनादिविक्रये कृते ग्रहीष्यामि' इति भावनया बंन्धनान्मूटकादिरूपात्सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य परस्यैव गृहे स्थापयतस्तृतीयः । ४- अङ्गीकृतद्विपदचतुष्पदप्रमाणस्य गोमहिषीवडवादेर्विवक्षितकालादर्वागेव प्रसवे आधिक्याद् व्रतभङ्गः स्यादिति कियत्यपि काले गते गर्भस्य कारणाद्गर्भस्थगवादिभावेन बहिस्तदभावेन च कथञ्चिद् व्रतातिक्रमाच्चतुर्थः । ५ - कुप्यस्य या सङ्ख्या कृता यथा किल दश कच्चोलकानि मे मुत्कलानि, तस्या आधिक्यसम्भवे व्रतभङ्गभयाद्भावेन पर्यायान्तरेण भञ्जयित्वा बहुभिरपि दशैव कारयतः सङ्ख्यापूरणात्स्वाभाविकसङ्ख्याबाधनाच्च पञ्चमः । इत्यणुव्रतातिचाराः ।
४
इदानीं गुणव्रतेषु, ६ - तत्र दिग्विरतिव्रत ऊर्ध्वाधस्तिर्यग्दिक् प्रमाणातिक्रमाः क्षेत्रवृद्धिः स्मृत्यन्तर्धानं चेति । १- ३ आद्यास्त्रयः सुबोधा एव, नवरमूर्ध्वादिदिशां गमनमाश्रित्य प्रमाणातिक्रमोऽतिचारोऽनाभोगादिनातिक्रमादिना वा । ४ - क्षेत्रवृद्धिश्चैवम्- किल केनचित्सर्वदिक्षु योजनशतं दिग्व्रतमङ्गीकृतम्, कदाचिच्च प्राच्यां वाणिज्यादिनासौ योजनशतमगमत्, ततोऽपि परतः प्रभूतलाभो भवितेत्यपरस्यां नवतिं यास्यामीति विकल्प्य दशयोजनानि पूर्वस्यां वर्धयतो व्रतसापेक्षस्यातिचारः । ५ - स्मृतेरन्तर्धानं विस्मृतिर्यथा पूर्वस्यां दिशि योजनशतं दिक्परिमाणं
१. मूढकादि T.C
,