________________
८६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
सामीजीवादत्तं तित्थयरेणं तहेव य गुरुहिं ।
एयस्स उजा विरई अदिन्नादाणस्स सा विरई ।। [ नवपदप्र० ३९ ] इत्यदत्तादानलक्षणयोगात् तत्कारिणां च चौर्यदण्डयोगेन व्रतभङ्ग एव, तथापि 'वाणिज्यमेवेदं मया कृतम्, न चौर्यम्' इति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावादतिचारता । ४-मानं कुडवादि पलादि हस्तादि, तस्य कूटत्वं हीनाधिकत्वम्, हीनमानेन ददात्यधिकेन च गृह्णाति। ५ - तस्य प्रस्तुतस्य व्रीह्यादेः प्रतिरूपं सदृशम्, यथा व्रीहीणां पलञ्जिः, घृतस्य वसा, तैलस्य मूत्रम्, जात्यसुवर्णकर्पूरादीनां युक्तिसुवर्णकृत्रिमकर्पूरादिस्तेन व्यवहारः । व्रीह्यादिषु पलञ्ज्यादि प्रक्षिप्य तत्तद्विक्रीणीते, एतौ च वञ्चनातः परधनग्रहणाद्भङ्गावेव, केवलं ‘खात्रखननादिकमेव चौर्यं प्रसिद्धमियं तु वणिक्कलैव मया कृता' इति भावनातोऽतिचाराविति । यदिवा पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसानाभोगातिक्रमव्यतिक्रमादिभिर्विधीयमाना अतिचारतया व्यपदिश्यन्ते ।
४ - मैथुने पुनरपरिगृहीतागमनमित्वरपरिगृहीतागमनमनङ्गक्रीडापरविवाहकरणं कामे तीव्रा - भिलाषश्चेति । १-अपरिगृहीतायामनाथकुलाङ्गनायां गमनम्, तस्या लोके परदारतया रूढस्तत्कल्पनया परस्य भर्तुरभावेनापरदारत्वाच्चातिचारः । २-इत्वरकालं या परेण भाट्यादिना परिगृहीता वेश्या तस्यां गमनम्, कथञ्चित्परदारत्वात्तस्या लोके परदारत्वारूढेश्चेति द्वितीयो - ऽतिचारः । एतौ च परदारवर्जिन एव, न स्वदारसन्तोषिणः, शेषास्तु द्वयोरपि । यदाह परदारवज्जिणो पंच हुंति तिन्नि उ सदारसंतुट्ठे ।
इत्थीए तिन्नि पंच व भंगविगप्पेहिं नायव्वा ।। [ संबोधप्र० ११५७ ]
३-अनङ्गः कामस्तत्सम्बद्धा क्रीडा अधरदशनालिङ्गनकुचस्पर्शादिका, निधुवनमेव व्रतविषयो नैषेति भावनया स्वदारसन्तोषिणो वेश्यादौ । परदारवर्जिनः परदारेष्वनङ्गक्रीडामाचरतोऽतिचारता । ४-परेषां स्वापत्यव्यतिरिक्तानां विवाहकरणम्, कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानम्, इदं च द्विविधं त्रिविधेन प्रतिपन्नस्थूलमैथुनव्रतस्य परविवाहकरणेऽर्थतो मैथुनकारणाद् व्रतभङ्ग एव । किन्तु तती मन्यते -विवाह एव मया विधीयते न मैथुनं कार्यते' इति सापेक्षत्वादतिचारता । न च वाच्यं स्वापत्यविवाहेऽपि समानमेतदिति, यतस्तदकरणे तेषां स्वच्छन्दचारित्वेन शासनोपघातादयो दोषाः स्युरिति । ५ कामे तीव्राभिलाषस्त्यक्तान्यकृत्य
१. तत्तद्विक्रीणाते T,B,C