________________
२-धर्मतत्त्वम् गा-६३
८५
पालनाच्चातिचारव्यपदेशः । एवमुत्तरेष्वपि भावना, बन्धादयश्चेहोपलक्षणमभिचारमन्त्रतन्त्रप्रयोगादयोऽप्यतिचारतया ज्ञेया एते प्रथमव्रते ।
२-मृषावादे तु सहसाभ्याख्यानं रहोऽभ्याख्यानं स्वदारमन्त्रभेदो मृषोपदेशः कूटलेखकरणञ्चेति। १-सहसाऽनालोच्याभ्याख्यानमसद्दोषाध्यारोपणम्, यथा चौरस्त्वं पारदारिको वेत्यादि। २-रहसैकान्तेन हेतुभूतेनाभ्याख्यानं रहोऽभ्याख्यानम्, इदमुक्तं भवति-रहसि मन्त्रयमाणान् वीक्ष्यासत्सम्भावनयैव वदति ‘एते हि इदं राजविरुद्धादिकं मन्त्रयन्ते' एतच्च हास्यक्रीडादिना ब्रूते न त्वभिनिवेशेन, तथा सति हि व्रतभङ्ग एव, यदाह -
सहसाब्भक्खणाई जाणंतो जइ करेज्ज तो भंगो ।।
जइ पुणऽणाभोगाईहिंतो तो होइ अइयारो ।। [ ] ३-स्वदाराणां मन्त्री विश्रम्भभाषणम्, तस्य भेदः प्रकाशनम्, दारग्रहणं मित्राद्युपलक्षणम् । अस्य चानुवादरूपत्वेन सत्यत्वेऽपि मन्त्रप्रकाशने लज्जादितः कलत्रादेर्मरणादिसम्भवेन तत्त्वतोऽसत्यत्वादतिचारता । ४-मृषोपदेशो विवादादौ स्वयं परेण वान्यतरातिसन्धानोपायोपदेशः, इह स्वयमेव वदतोऽन्यं शिक्षयतः किञ्चिद् व्रतसापेक्षत्वादतिचारता । ५-कूटमसद्भूतम्, तस्य लेखः कूटलेखः, इह चासत्यभणनमेव प्रत्याख्यातमिदं तु लेखनमिति व्रतसव्यपेक्षत्वेनातिचार इति।
३-अथ तृतीयव्रते स्तेनाहतादानं तस्करप्रयोगः विरुद्धराज्यगमनं कूटमानकरणं तत्प्रतिरूपव्यवहारश्चेति, १-स्तेनैराहतं कुङ्कुमवस्त्रादि तस्यादानम्, तद्विक्राणक्रयेण मुधिकया वा कुर्वंश्चौर इति व्यपदिश्यते, यदाह -
चौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी ।
अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः ।। [ ] इत्थं व्रतभङ्गः, वाणिज्यमेव करोमि न चौरिकामित्याशयेन व्रतसव्यपेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । २-तस्करप्रयोगश्चौराणां हरणक्रियायां प्रेरणा, यथा 'किमधुना यूयं निर्व्यापारास्तिष्ठथ ? यदि वो भक्तादि नास्ति तदाहं तद्ददामि, भवदानीतमोषस्य यदि विक्रायको नास्ति, तदाहं विक्रेष्यामि'इत्यादि, अत्रापि भङ्गसापेक्षताभ्यामतिचारता भावनीयेति । ३-विरुद्धो निजदेशस्वामिनः प्रतिपन्थी, तस्य राज्यं कटकं देशो वा, तत्र स्वस्वामिनो निषेधशासनमुल्लङ्घ्य गमनमिह च यद्यपि -