________________
८४
दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम् । कुव्यापारपौषधस्तु देशत एकतरस्य कस्यापि कव्यापारस्याकरणम्, सर्वतस्तु सर्वेषामपि गृहकर्मादीनामकरणम् । इह च देशतः कुव्यापारनिषेधं यदा करोति तदा सामायिकं करोति वा न वा, यदा तु सर्वतः करोति तदा नियमात्करोत्येव, अकरणे तु तत्फलेन वञ्च्यते । सर्वतः पौषधं च पौषधशालादौ त्यक्तमौक्तिकमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहतप्रहरणः प्रतिपद्यते ।
१२-न्यायागतानां प्रासुकैषणीयानामशन-पान-खाद्य-स्वाद्यानां वस्त्रपात्रोपाश्रयादीनां चातिथेः साधोः सङ्गतो देश-काल-श्रद्धा-सत्कारादिक्रमयुक्त आत्मानुग्रहबुद्धया विभागो दानमतिथिसंविभागो द्वादशं व्रतम्, यदुक्तम् -
साहूण कप्पणिज्जं जं नवि दिन्नं कहिंचि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ।। वसही-सयणा-ऽऽसण-भत्त-पाण-भेसज्ज-वत्थपायाई ।
जइवि न पज्जत्तधणो थोवा वि हु थोवयं देइ ।। [उपदेशमाला-२३९, २४०] एतानि च सातिचाराणि न सम्यगित्यमीषु भोगोपभोगव्रतवर्जं पञ्चपञ्चातिचाराः परिहर्तव्याः । भोगोपभोगव्रते तु विंशतिः ।
१-तत्र प्रथमव्रते तावदमी-अतिक्रोधादिभिर्बन्धो वधश्च्छविच्छेदोऽतिभारारोपणं भक्तपाननिरोधश्चेति । १-तत्र क्रोधाद् बन्धो गो-मनुष्यादीनां प्राणप्रहाणनिरपेक्षं रज्जुदामनकादिना नियमनम्, न पुनर्यत्पुत्रादीनां विनयग्रहणार्थं चतुष्पदानां च रक्षार्थं सविक्रमणं यतनया क्रियते । २-वधो लगुडकशादिना निर्दयताडनं क्रोधादेव, न पुनर्यद् व्रतसापेक्षं शिक्षार्थं यतनया पुत्राश्वादीनां लतादवरकादिना सकृद् द्विस्त्रिर्वा ताडनमिति । ३-छविस्त्वक् शरीरं वा, तस्याश्छेदः क्रोधाल्लोभाद्वा द्विपदचतुष्पदानां हस्तपादकर्णनासिकाछेदकर्णपाटनपृष्टकर्तनादिः, न पुनश्चिकित्सार्थमरुगण्डपादवल्मीकोपहतपादादिच्छेदनमिति। ४-अधिकस्य वोढुमशक्यस्य भारस्यारोपणं क्रोधाल्लोभाद्वा, गो-करभ-रासभ-मनुष्यादेर्वहनाय यावन्तमेव सपराक्रमं वोढुं क्षमस्तावानेव भारोऽध्यारोप्य इत्यर्थः । ५-भक्तादिनिरोधश्च क्रोधान्निर्दयं भृत्याधमर्णादीनाम्, ज्वरितादीनां तु रोगचिकित्साहेतुत्वान्न दूष्यतीति । ननूपासकेन हिंसैव प्रत्याख्याता ततो बन्धादौ क दोषः ? सत्यम्, हिंसाहेतुत्वात्तत्वतस्तेऽपि प्रत्याख्याता एव न चैवं सति व्रतभङ्ग एव, यतो द्विविधं हि व्रतमन्तर्वृत्त्या बहिर्वृत्त्या च, तत्र यदा कोपाद्यावेशान्निर्दयं बन्धादौ प्रवर्त्तते तदा विरत्यनपेक्षप्रवृतेरन्तर्वृत्त्या व्रतभङ्गो हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनादेशस्य