SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ८४ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम् । कुव्यापारपौषधस्तु देशत एकतरस्य कस्यापि कव्यापारस्याकरणम्, सर्वतस्तु सर्वेषामपि गृहकर्मादीनामकरणम् । इह च देशतः कुव्यापारनिषेधं यदा करोति तदा सामायिकं करोति वा न वा, यदा तु सर्वतः करोति तदा नियमात्करोत्येव, अकरणे तु तत्फलेन वञ्च्यते । सर्वतः पौषधं च पौषधशालादौ त्यक्तमौक्तिकमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहतप्रहरणः प्रतिपद्यते । १२-न्यायागतानां प्रासुकैषणीयानामशन-पान-खाद्य-स्वाद्यानां वस्त्रपात्रोपाश्रयादीनां चातिथेः साधोः सङ्गतो देश-काल-श्रद्धा-सत्कारादिक्रमयुक्त आत्मानुग्रहबुद्धया विभागो दानमतिथिसंविभागो द्वादशं व्रतम्, यदुक्तम् - साहूण कप्पणिज्जं जं नवि दिन्नं कहिंचि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ।। वसही-सयणा-ऽऽसण-भत्त-पाण-भेसज्ज-वत्थपायाई । जइवि न पज्जत्तधणो थोवा वि हु थोवयं देइ ।। [उपदेशमाला-२३९, २४०] एतानि च सातिचाराणि न सम्यगित्यमीषु भोगोपभोगव्रतवर्जं पञ्चपञ्चातिचाराः परिहर्तव्याः । भोगोपभोगव्रते तु विंशतिः । १-तत्र प्रथमव्रते तावदमी-अतिक्रोधादिभिर्बन्धो वधश्च्छविच्छेदोऽतिभारारोपणं भक्तपाननिरोधश्चेति । १-तत्र क्रोधाद् बन्धो गो-मनुष्यादीनां प्राणप्रहाणनिरपेक्षं रज्जुदामनकादिना नियमनम्, न पुनर्यत्पुत्रादीनां विनयग्रहणार्थं चतुष्पदानां च रक्षार्थं सविक्रमणं यतनया क्रियते । २-वधो लगुडकशादिना निर्दयताडनं क्रोधादेव, न पुनर्यद् व्रतसापेक्षं शिक्षार्थं यतनया पुत्राश्वादीनां लतादवरकादिना सकृद् द्विस्त्रिर्वा ताडनमिति । ३-छविस्त्वक् शरीरं वा, तस्याश्छेदः क्रोधाल्लोभाद्वा द्विपदचतुष्पदानां हस्तपादकर्णनासिकाछेदकर्णपाटनपृष्टकर्तनादिः, न पुनश्चिकित्सार्थमरुगण्डपादवल्मीकोपहतपादादिच्छेदनमिति। ४-अधिकस्य वोढुमशक्यस्य भारस्यारोपणं क्रोधाल्लोभाद्वा, गो-करभ-रासभ-मनुष्यादेर्वहनाय यावन्तमेव सपराक्रमं वोढुं क्षमस्तावानेव भारोऽध्यारोप्य इत्यर्थः । ५-भक्तादिनिरोधश्च क्रोधान्निर्दयं भृत्याधमर्णादीनाम्, ज्वरितादीनां तु रोगचिकित्साहेतुत्वान्न दूष्यतीति । ननूपासकेन हिंसैव प्रत्याख्याता ततो बन्धादौ क दोषः ? सत्यम्, हिंसाहेतुत्वात्तत्वतस्तेऽपि प्रत्याख्याता एव न चैवं सति व्रतभङ्ग एव, यतो द्विविधं हि व्रतमन्तर्वृत्त्या बहिर्वृत्त्या च, तत्र यदा कोपाद्यावेशान्निर्दयं बन्धादौ प्रवर्त्तते तदा विरत्यनपेक्षप्रवृतेरन्तर्वृत्त्या व्रतभङ्गो हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनादेशस्य
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy