________________
२-धर्मतत्त्वम् गा-६३
प्रनादाचरितं च द्यूतमद्यादिव्यसनम्, कुतूहलाद्गीतनृत्तनाटकादिनिरीक्षणम्, दोलाजलादिलिरनुबद्धकषायः सकलां रात्रिं स्वापो विकथा चेत्यादिकं वर्जयेदिति गुणव्रतानि ।
अथ शिक्षाव्रतानामवसरः, ९-तत्रेन्द्रियमनःसमाहितस्य द्विविधत्रिविधं त्यक्तसावद्ययोगस्य मुहूर्तं समभावस्थितिः सामायिकव्रतम् । अत्र च प्रतिपन्ने श्रावकोऽपि यतिरिव भवति । यदाह -
सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा ।
एएण कारणेणं बहुसो सामाइयं कुज्जा।। [आव.नि. ८०१] इह च श्रावकः सामायिकं कुर्वंश्चतुर्षु स्थानेषु करोति, जिनगृहे साधुसमीपे पौषधशालायां स्वगृहे वा, यत्र वा विश्राम्यति निर्व्यापारो वाऽस्ते तत्र च । स च प्रतिपत्ता द्विविधः, ऋद्धिमाननृद्धिकश्च। तत्रानृद्धिकः साधुसमीपे यदा करोति तदायं विधिः - यदि कस्मादपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति, तदा स्वगृहेऽपि सामायिकं कृत्वा पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधूनमस्कृत्य सामायिकं करोति ‘करेमि भंते सामाइयं सावज्जं जोगं पच्चक्खामि, जाव साहू पज्जुवासामि, दुविहंतिविहेणं' इत्यादि । एवं कृत सामायिक ईर्यापथिकायाः प्रतिक्रम्य पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते, पुनर्गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः श्रृणोति पठति पृच्छति वा । एवं जिनभवनादिष्वपि, [यदा तु पौषधशालायां स्वगृहे वा सामायिकं गृहीत्वा तत्रैवाऽऽस्ते] केवलं तदा गमनं नास्ति। यस्तु महर्द्धिकः सोऽकृतसामायिक एव सर्वविभूत्या तीर्थं प्रभावयन् जिनालयं साधुवसतिं वा गच्छति, आगतश्चासौ सामायिकं करोतीत्यादि पूर्ववत् । स च सामायिकं कुर्वन् मुकुटं कुण्डले नाममुद्रां पुष्पं ताम्बूलं प्रावारकादि व्युत्सृजतीति ।।
१०-दिग्व्रतप्रतिपन्नस्य दिक्परिमाणस्य दिवारात्रौ प्रहरादौ च सक्षेपणं देशावकाशिकम्, शेषव्रतविषयसक्षेपणमप्यत्र द्रष्टव्यम्, तत्सङ्क्षपस्याप्यवश्यं कर्तव्यत्वादिति ।
११-अष्टमीचतुर्दशीपूर्णिमाऽमावास्यासु देशतः सर्वतो वाऽऽहारशरीरसत्काराब्रह्मचर्यकुव्यापारपरिहारः पौषधव्रतम्, तत्राऽऽहारपौषधो देशतो विवक्षितविकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति । सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम्, शरीरसत्कारपौषधश्च देशतः स्नानादेः शरीरसत्कारस्यैकतरस्याकरणम्, सर्वतस्तु सर्वस्यापि, ब्रह्मचर्यपौषधोऽपि देशतो दिवैव रात्रावेव वा, सकृदेव द्विर्वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम्,
१. तत्रागमनं A तथा गमनं T.C