________________
८२
दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
धान्यं व्रीह्यादि, द्विपदं कलत्रदासशुकादि, चतुष्पदं गवाश्वादि, कुप्यं कांस्य-लोह-त्रपु-ताम्रसीसकादिघटितभाण्डतूलिपल्यङ्कादिरूपः सर्वो गृहोपस्करः, एतानि पञ्चाणुव्रतानि मूलगुणा उच्यन्ते, श्रावकधर्मतरोर्मूलकल्पत्वाद् । दिग्व्रतादीनि तु गुणव्रतशिक्षाव्रतानि शाखाप्रशाखाकल्पत्वादुत्तरगुणाः । ६-तत्रोर्ध्वाधस्तिर्यग्दिग्गमनपरिमाणकरणं दिग्विरतिव्रतम् ।
७-भोगोपभोगयोः शक्त्या परिमाणकरणं भोगोपभोगव्रतम्, तत्र सकृद्रोग्यस्ताम्बूलान्नस्रगादिर्भोगः, पुनः पुनर्भोग्यो वस्त्राङ्गनाभवनादिरुपभोगः । इदं च भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन तदितरेषु च वर्जनेन भवति । वर्जनीयानि च -
मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ।। आमगोरससम्पृक्त-द्विदलं पुष्पितौदनम् । दध्यहतियातीतं कुथितान्नं च वर्जयेत् ।। [योगशास्त्रप्र. ३-६, ७] जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् ।
सन्धानमपि संसक्तं जिनधर्मपरायणः ।। [योगशास्त्रप्र. ३-७२] फलं मधूक-बिल्वादेः, पुष्पमरणि-शिग्रुमधूकादेः, पत्रं प्रावृषि तन्दुलीयकादेः । इह च भोगोपभोगकारणं धनोपार्जनमपि भोगोपभोगः, उपचारात्तत्परिमाणमपि भोगोपभोगव्रतम्, यथा श्रावकस्य खरकर्मपरिहारेण जीविका, एतच्चातिचारप्रक्रमे वक्ष्यते।
८-अर्थाय शरीरादिकृते दण्डो मनोवाक्कायैः प्राणिनां पीडनमर्थदण्डो न तथाऽनर्थदण्डः, स चतुर्द्धा, तद्यथा -
आर्तं रौद्रमपध्यानं पापकर्मोपदेशिता ।
हिंसोपकारिदानं च प्रमादाचरणं तथा ।। [योगशास्त्रप्र० ३-७३] तद्विरतिस्तृतीयं गुणव्रतम् । तत्रापध्यानं वैरिमरणदेशघातनृपखेचरत्वादिप्रार्थनारूपं मुहूर्तात्परतो वर्जनीयम् । पापोपदेशं च वत्सतरदमनकर्षणादिकं पुत्रस्वजनादीन् विहायान्यत्र त्यजेत्, यन्त्रशस्त्रानिहलमुशलोदूखलादीनि हिंस्रवस्तूनि च दाक्षिण्यविषयादन्यस्मै न दद्यात् ।
१. स्थालकच्चोलपल्यङ्कादि सर्वो० A