________________
२-धर्मतत्त्वम् गा-६३
कारणानुमतिभ्याम्, करणकारणानुमतिभिश्च सप्त सप्त, एवं सर्वे मीलिता एकोनपञ्चाशद्भन्ति एते च त्रिकालविषयत्वात्प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवन्तीति । यदाह -
सीयालं भंगसयं पच्चक्खाणम्मि जस्स उवलद्धं ।
सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ ।। [प्रव.सारो० १३२८] एत अहिंसाव्रतमाश्रित्योक्ता व्रतान्तरेष्वपि दृष्टव्या इति ।
२-कन्यागोभूम्यलीकन्यासापहारकूटसाक्ष्यलक्षणेभ्यः स्थूलासत्येभ्यो विरतिद्वितीयमणुव्रतम्, तत्र कन्यालीकं कन्यां सदोषामप्यदोषां विपर्ययं वा वदतः, सर्वद्विपदालीकोपलक्षणं चैतत् । गवालीकं गामल्पक्षीरामपि बहुक्षीरां विपर्ययं वा वदतः । इदमपि चतुष्पदालीकोपलक्षणम् । भूम्यलीकं भुवं परसत्कामप्यात्मादिसत्कां विपर्ययं वा वदत एतदपि पादपाद्यपदव्यलीकोपलक्षणम्, न च वाच्यं द्विपद-चतुष्पदाऽपदग्रहणमेव कस्मान्न कृतमिति ? कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन रूढत्वात्, अत एव हि न्यासापहारकूटसाक्ष्येऽपि भेदेनोपात्ते, न्यासापाहारो न्यासीकृतसुवर्णाद्यपलापः, कूटसाक्ष्यं प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः । एतानि पञ्च क्लिष्टाशयसमुत्थत्वात् स्थूलासत्यानीति ।
३-सचित्ताचित्तमिश्रभेदाच्चोरव्यपदेशनिबन्धनस्थूलादत्तपरस्वाद्विरतिस्तृतीयमणुव्रतम्, सूक्ष्म तृणजलेन्धनदन्तशोधनादि नात्रावरुध्यते ।
४-स्वदारसन्तोषः परदारवर्जनं वा चतुर्थम्, परदाराः परकलत्राणि नारीदेवीतिरश्चीरूपाणि, तेषां वर्जनम्, स्त्रियास्तु स्वभर्तृव्यतिरिक्तसर्वपुरुषवर्जनमिति ।
५-क्षेत्रवास्तुरूप्यस्वर्णधनधान्यद्विपदचतुष्पदकुप्यलक्षणस्य नवविधपरिग्रहस्य परिमाणकरणं पञ्चममणुव्रतम् । क्षेत्रं सस्योत्पत्तिभूमिः, तत् त्रिविधं सेतुकेतूभयभेदात्, सेतु यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकनिष्पाद्यसस्यम्, उभयमुभयजलनिष्पाद्यसस्यम् । वास्तु गृहादि ग्रामनगरादि च, गृहादि त्रिविधम्, खातं भूमिगृहादि, उच्छ्रितं प्रासादादि, खातोच्छ्रितं भूमिगृहस्योपरि गृहादिसन्निवेशः, रूप्यस्वर्णे स्पष्टे, धनं गणिमधरिममेयपरीक्ष्यलक्षणम्, उक्तं च -
गणिमं जाईफलफोफलाइ धरिमं च कुंकुमगुडाई । मेज्जे चोप्पडलोणाइ रयणवत्थाइ परिच्छिज्जं ।। [संबोधप्र. ११६९]