________________
२-धर्मतत्त्वम् गा-६३
वा तेषां पञ्चकमनुव्रतपञ्चकमेव उत्तरपदस्थतुशब्दस्यैवकारार्थस्येह सम्बन्धात्तेन नामूनि मध्यमतीर्थेष्वपि महाव्रतानीव चत्वारि, यतः शैलकज्ञाते शैलकराजो नेमिनाथशिष्यस्यान्तिके पञ्चाणुव्रतिकं सप्तशिक्षाव्रतिकं श्रमणोपासकधर्मं प्रतिपन्न इत्यभिहितमिति ।
त्रीणि त्रिसङ्ख्यानि गुणायानुव्रतानामुपकाराय व्रतानि नियमा गुणव्रतानि, पुंस्त्वं तु ‘प्राकृते लिङ्गमतन्त्रम्' इति वचनात् भवन्ति क्रियापदं चैतद्वचनव्यत्ययेन पूर्वत्रोत्तरत्र च सम्बध्यते । शिक्षा अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि, पुनः पुनरासेवार्हाणीत्यर्थः । चत्वारि चतुःसङ्ख्यानि, इतिशब्दस्य लुप्तस्येह दर्शनादित्युक्तनीत्या द्वादशधा भवति, गृहं स्वामित्वेन विद्यते यस्य स गृही श्रावकस्तस्य धर्म इति गाथार्थः ।।६२ ।।
* श्रावकधर्मविधिप्रकरणे-१३ * तमेव ग्राहणीयतयोदितं श्रावकधर्म संपिण्ड्याह -
सम्मत्तमूलिया ऊ पंचाणुव्वय गुणव्वया तिण्णि ।
चउसिक्खावयसहिओ सावगधम्मो दुवालसह ।। 'सम्मत्त' गाहा व्याख्या-सम्यक्त्वं मूलं प्रथमं कारणं येषां तानि सम्यक्त्वमूलानि, 'कमलाकृतयो वा' इति पुंल्लिङ्गता । तुरवधारणे, सम्यक्त्वमूलान्येव, न हि सम्यक्त्वमन्तरेणाऽणुव्रतादिसम्भवः । तदुक्तम्__ मूलं द्वारं प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्याऽस्य धर्मस्य सम्यग्दर्शनमिष्यते ।। [श्रा० प्र० सू० वृ० पृ० ९/१] पञ्चेति संख्या, अणूनि लघूनि महाव्रताऽपेक्षया व्रतानि प्रतीतान्यणुव्रतानि । तथा गुणव्रतानि त्रीणि, पुँल्लिङ्गता प्राग्वत् । चत्वारीति संख्या, शिक्षाऽभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि, पुनश्चतुःशब्देन समासः संज्ञात्वात् प्राकृतत्वाद्वा, तैः सहितो युक्तः श्रावकधर्मोऽधिकृतो द्वादशधा द्वादशप्रकारो भवतीत्यध्याहारः । इति गाथार्थः ।।१३।।
चक्रे० : अथ द्वादशव्रतनामान्याहुः - देव० : द्वादशभेदः श्रावकधर्मो भवतीत्यभिहितमथ तानेव नामग्राहमाह -
पाणिवह मुसावाए अदत्तमेहुण परिग्गहे चेव ।
दिसिभोग दंड समइय देसे तह पोसहविभागे ।।३।। चक्रे० : सूचकत्वात्सूत्रस्य प्राणातिपातविरतिम॒षावादविरतिरदत्तादानविरतिमैथुनविरतिः परिग्रहविरतिदिग्विरति गोपभोगविरतिरनर्थदण्डविरतिः सामायिकं देशावकाशिकं पोषधोऽतिथिसंविभागश्चेति ।।६३।।