________________
२-धर्मतत्त्वम् चक्रे० : व्याख्यातं देवतत्त्वम्, देवश्च भव्यावबोधाय धर्ममुपदिदेशेत्यनेन सम्बन्धेनायातं मूलद्वारगाथाक्रमप्राप्तं च धर्मतत्त्वमधुना विव्रियते । तत्रादौ गाथा -
देव० : व्याख्यातं लेशतो देवतत्त्वमिदानी मूलद्वारगाथाक्रमप्राप्तं धर्मतत्त्वं विव्रियते, सम्बन्धश्चास्य प्राच्येन प्राग्देवस्वरूपं न्यक्षेण चचक्षे, स चासौ देवः स्वयमधिगताशेषसमीहितव्योऽपि जन्तूनां हिताय यथा यथावस्थितं धर्ममुपदिदेश तथोच्यते, तत्रादौ गाथा -
जीवदयसञ्चवयणं परधणपरिवज्जणं सुसीलं च ।
खंती पंचिदियनिग्गहो य धम्मस्स मूलाई ।।६।। चक्रे० : स्पष्टा, नवरं चकारात्परिग्रहविरतिग्रहः । 'खंती' त्ति क्षान्तिः क्रोधनिग्रहः । क्षान्तिभणनाच्छेषकषायनिग्रहोऽपि ज्ञेयः । 'पंचिंदियनिग्गहो' त्ति पञ्चानां स्वकीयेन्द्रियाणां निग्रहो विज्ञेयः, धर्मश्च द्विधा गृहिधर्मयतिधर्मभेदात् ।।६।।
देव० : जीवितवन्तो जीवन्ति जीविष्यन्तीति च जीवाः, चेतनादिलिङ्गव्यङ्ग्याः पृथिव्यादयः प्राणिनस्तेषु दया कारुण्यम्, सत्यवचनं भूतहिता वाक्, पर आत्मव्यतिरिक्तास्तेषां धनं हिरण्यादि तस्य परिवर्जनं परिहारः, सुष्ठु शोभनं शीलं सदाचारश्चतुर्थव्रतं वा चः समुच्चये, शान्तिः क्रोधनिग्रहः, उपलक्षणं चेदं शेषकषायनिग्रहस्य, पञ्चेति पञ्चसङ्ख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि करणानि, तेषां निग्रहो निरोधः स्वविषयप्रवृत्तावपि रागद्वेषाकरणं यदुक्तम् -
न शक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् ।
रागद्वेषौ तु यौ तत्र तौ बुधः परिवर्जयेत् ।। [ ] इति । इह पञ्चेन्द्रियनिग्रहस्य मनोनिग्रहपूर्वकत्वात्तन्निग्रहोऽपि वेदितव्यः । चः समुच्चये, धारयति दुर्गतौ निपततो जीवानिति धर्मः, तथा च वाचकः -