SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् उस्सुत्तं पुण इत्थं थावरपाउग्गकूवकरणाई । उब्भूयगकरउप्पायणाइ धम्माहिगारंमि ।। तत्र स्थावरादिनिर्मापणादीनां षटकायारम्भासंयतवासादिना महासावद्यत्वेन निवारितत्वाद्देवार्थमुद्भूतकरोत्पादनस्य च लोकाप्रीतिजनकत्वेनाबोधिहेतुत्वात्, तदुक्तम् - धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायव्वं । इय संजमो वि सेओ इत्थ य भगवं उदाहरणं ।। सो तावसासमाओ तेसिं अपत्तियं मुणेऊणं। परमं अबोहिबीयं तओ गओ हंत काले वि ।। तदेवं वर्धयन्तोऽप्यास्तां भक्षयन्तः, तद्भक्षणस्य महानर्थहेतुत्वात् । किम् ? इत्याह-ब्रुडन्ति मज्जन्ति भवसमुद्रे संसारवारिधौ मूढा मन्दाः, किंविशिष्टाः ? मोहेन मोहनीयकर्मणाऽज्ञानिनो विशुद्धज्ञानविकला देवद्रव्यं वर्धयन्तोऽपि भवसमुद्रे मज्जन्ति, जिनाज्ञाभङ्गहेतुत्वात्तादृशवर्धनस्य । ननु तर्हि जिनद्रव्यं वृद्धिमपि न नेयम् ? इति चेन्न, तद्वृद्धिप्रयोगस्यागमे बहुशः शुभफलहेतुत्वेनाभिधानात् - एवं नाऊण जे दव्वं वुद्धिं निंति सुसावया । ताणं रिद्धी पवढेइ कित्ती सुक्खं बलं तहा ।। पुत्ता य हुंति से भत्ता सोंडीरा बुद्धिसंजुया । सव्वलक्खणसंपन्ना सुसीला जणसम्मया ।। देवद्रव्यवत्साधारणद्रव्यमपि वर्धनीयमेव, देवद्रव्यसाधारणद्रव्ययोर्हि वर्धनादौ शास्त्रे तुल्यत्वश्रुतेः, तथा चोक्तम् - देवस्सं नाणदव्वं च साधारणधणं तहा । सावएहिं तिहा काउं नेयव्वं बुड्डिमायरा ।। तथा - चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ । धम्मं च सो न याणइ अहवा बद्धाउओ नरए ।। यथा जिनद्रव्यस्य वृद्धिः कर्तव्या तथा तद्रक्षणमपि विधेयम्, यदुक्तम्जिणपवयणवुड्किरं पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।। 'परीतसंसारिकः' इत्यासन्नमुक्तिगमनादल्पस्थितिकः ।।६।। * उपदेशपदे-४१८ * xxx वर्द्धयन्नपूर्वापूर्वद्रव्यप्रक्षेपेण वृद्धिं नयञ्जिनद्रव्यम्, तीर्थकरत्वं चतुर्वर्णश्रीश्रमणसङ्घकर्तृत्वलक्षणं लभते जीवः । xxx
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy