________________
देवतत्त्वम् गा-५८, ५९, ६०
७५
निरूपितरूपम्, साधुः श्रावको वा परीतसंसारिकः परिमितभवभ्रमणभाग् भवतीति । तथाहि-जिनद्रव्ये रक्षिते सति तद्विनियोगेन चैत्यकार्येषु प्रसभमुत्सर्पत्सु भविनो भव्याः समुद्गतोदग्रहर्षा निर्वाणावन्ध्यकारणबोधिबीजादिगुणभाजो भवन्तीति । तथा चैत्याश्रयेण संविग्नगीतार्थसाधुभिरनवरतं सिद्धान्तव्याख्यानादिभिस्तथा तथा प्रपञ्चयमानैः सम्यग्ज्ञानगुणवृद्धिः सम्यग्दर्शनगुणवृद्धिश्च सम्पद्यते । इति चैत्यद्रव्यरक्षाकारिणो मोक्षमार्गानुकूलस्य प्रतिक्षणं मिथ्यात्वादिदोषोच्छेदस्य युज्यत एव परीतसंसारिकत्वमिति ।।४१७ ।।
* श्राद्धदिनकृत्ये-१४३ * xxx परित्तसंसारिक इत्यासन्नमुक्तिगमनादल्पभवस्थितिक: xxx
* संबोधसित्तर्याम्-६६ * एते पूर्वोक्ताः सूक्ष्मभावास्तीर्थकृता प्रतिपादिता इति तीर्थकृत्त्वस्यैव कारणमाह -
जिणपवयणवुड्डिकर, पभावगं नाणदंसणगुणाणं ।
वटुंतो जिणदव्वं तित्थयरत्तं लहइ जीवो ।। जिनद्रव्यं देवसंबन्धिद्रव्यं वर्धयन् सुस्थानकलान्तरप्रयोगादिना वृद्धि नयजीवो भव्यसत्त्वस्तीर्थकरत्वमार्हन्त्यं लभते समासादयति । तीर्थकरत्वलाभस्तु देवद्रव्यवृद्धि कर्तुरर्हत्प्रवचनभक्त्यतिशयात्सुप्रसिद्ध एव । किम्भूतं जिनद्रव्यम् ? जिनप्रवचनवृद्धिकरम्, कथं सति हि देवद्रव्ये प्रत्यहं जिनायतने पूजासत्कारसम्भवः, तत्र च प्रायो यतिजनसंपातस्तद्व्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः । तथा ज्ञानदर्शनगुणानां प्रभावकमुत्सर्पणाकारकम् । जिनप्रवचनवृद्ध्या हि ज्ञानादिगुणानां प्रभावना भवत्येव । सोऽपि वृद्धिराज्ञयैव कर्तव्या नान्यथा । यदुक्तम् - जिणवरआणारहियं वद्धारितावि के वि जिणदव्वं । बुडंति भवसमुद्दे मूढा मोहेण अन्नाणी ।। जिनवराज्ञारहितं जिनद्रव्यं वर्धयन्तोऽपि मूढा भवसमुद्रे ब्रुडन्तीति सम्बन्धः । जिनवराणामाज्ञाऽऽगमस्तया रहितं मुक्तं जिनवराज्ञारहितमिति क्रियाविशेषणम् । ततश्च जिनवराज्ञारहितं यथा भवति तथा वर्धयन्तोऽपि वृद्धिं नयन्तोऽपि केऽपि मुग्धबुद्धयो जिनद्रव्यम्, आज्ञारहितं वर्धनं चैवम्-यथा श्रावकेण देवस्ववृद्धये कल्पपालमत्स्यबन्धकवधकवेश्याचर्मकारादीनां कलान्तरादिदानम् । तथा देववित्तेन वा भाटकादिहेतुकदेवद्रव्यवृद्धये यद्देवनिमित्तं स्थावरादिनिष्पादनम् । तथा महार्घाऽनेहसि विक्रयेण बहुदेवद्रविणोत्पादनाय गृहिणा यद्देवधनेन समर्घधान्यसंग्रहणम् । तथा देवहेतवे कूपवाटिकाक्षेत्रादिविधानम्। तथा शुल्कशालादिषु भाण्डमुद्दिश्य राजग्राह्यभागाधिककरोत्पादनादुत्पन्नेन द्रव्येण जिनद्रविणवृद्धिनयनं जिनवराज्ञारहितम् । तथा चोक्तम् -