SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चारित्रगुणलाभभाजो भवन्तीति गर्भार्थः । ततश्चैवंविधं जिनद्रव्यं भक्षयन्त्रनन्तसंसारिको भवति, तीर्थोच्छेदकत्वेन ज्ञानादिसकलगुणघातकत्वादिति । शेषं सुगमम्, नवरं 'परित्तसंसारिओ'त्ति परि समन्तादितः खण्डितो जिनद्रव्यरक्षणपरत्वेनोपगृहीतप्रवचनत्वादाराधितज्ञानादिगुणत्वाच्च । स चासौ संसारश्च, स विद्यते यस्य स परीतसंसारिकः । तथा 'वडुंतो 'त्ति उचितांशप्रक्षेपादिना कलान्तरप्रयोगादिना वा वृद्धिमुपनयंस्तीर्थकरत्वं लभते जीवः । अर्हद्वात्सल्यादुक्तन्यायेन प्रवचनप्रभावकत्वाच्च, यदाह ७४ - चेइयकुलगणसंघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्धगणहर तित्थयरो वा तओ होइ ।। [ उपदेशपद- ४१९ ] जिनप्रवचनेत्याद्यालापकस्य चासकृद्भणनं गमिकसूत्रत्वादिति गाथार्थः । । ५८, ५९, ६० ।। ।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे प्रथमं देवतत्त्वं समाप्तम् ।। श्रीरस्तु ।। * संबोधसप्ततिकायाम्-६८ * अथ क्षेपकगाथाद्वयेन जिनद्रव्यभक्षणफलमाह - जिणपवयणवुड्डिकरं पभावगं नाणदंसणगुणां । भक्तो जिणदव्वं अणंतसंसारिओ होइ ।। जिनप्रवचनस्य जिनोक्तसिद्धान्तस्य वृद्धिकरः, पुनर्ज्ञानदर्शनगुणानां प्रभावकः पुमानपि जिनद्रव्यं भक्षयन् सन्ननन्तसंसारिको भवति, अनन्तः संसारो विद्यते यस्य सोऽनन्तसंसारिकः, अथवाद्यं विशेषणद्वयं द्रव्यस्य व्याख्येयं प्राग्वत् ।।६८ ।। * उपदेशपदे- ४१७ * अथ चैत्यद्रव्यरक्षाफलमभिधातुमाह - जिणपवयणवुड्डिकरं पभावगं णाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।। जिनप्रवचनवृद्धिकरं भगवदर्हदुक्तशासनोन्नतिसम्पादकम्, अत एव (प्रभावकं ) विभावनं विस्तारहेतुः । केषामित्याह-ज्ञानदर्शनगुणानाम् । तत्र ज्ञानगुणा वाचना-प्रच्छना-परावर्त्तनाअनुप्रेक्षा-धर्मकथालक्षणाः, दर्शनगुणाश्च सम्यक्त्वहेतवो जिनयात्रादिमहामहरूपा रक्षस्त्रायमाणो जिनद्रव्यं
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy